एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ ३ सर्गः] द्विसंधानम् । भीमः क्रमाद्धर्महरः किरीटी प्रांशुर्विशालः ककुदुन्नतांसः । अभूदुषस्कन्धधरो महेच्छः स वर्तितो वर्तिकयेव धात्रा ॥ २८ ॥ भीमइति ॥ भीमो भयानको भीमसेनश्च । किरीटी मुकुटवान् अर्जुनश्च । क्रमात् प. रिपाच्या आनन्तर्येण च । प्रांशुः उवैस्तरः। विशालो विस्तीर्णः । ककुद् वृषस्कन्धोर्ध्व- प्रन्थिरिवोन्नतावंसी यस्य । वृषस्य वृषभस्य धर्मस्य व स्कन्धधरा प्रीवा यस्य । महतीच्छा यस्य, यद्वा मह उत्सवे इच्छा यस्य, यद्वा महे अच्छोऽविकलहृदयः । वर्तिका चित्रलेखनी । वर्तितश्चित्रितः । उत्प्रेक्षा ॥ ततः सुमित्रोदयहेतुभूतामद्रचुन्नति प्राप्तमसूत सूनुम् । योऽपप्रथत्सन्नकुलोदितारिः श्रीलक्ष्मणाख्यां सहदेवचर्यः ॥ २९ ॥ तत इति ॥ ततः रामोत्पत्त्यनन्तरम्, सुमित्रा राशी उदयहेतुभूतां विभवकारणभू- ताम्, अन्यन्नतिम् अद्रेः पर्वतस्य संवन्धिनीम् उनतिम् पार्वतीमिवोभति वा प्राप्तं सनम् पुत्रम् असूत जनितवती । सन्ना हता कुले उदिता अरयो येन सः,सन्नकुलोदितारिःदेवा- नामिव चर्यया गत्या सहवर्तमानः सहदेवचर्यः यः श्रीलक्ष्मणाख्यां लक्ष्मण' इति नाम अपप्रथत् प्रकटितवान् ॥ भारतीयपक्षेततः युधिष्ठिरभीमार्जुनोत्परयनन्तरम् । सुमित्रोदयहेतुभूता शोभन मित्राणामदयहेतुभता, माद्री राशी उन्नति प्राप्त सनुमसत । यः सहदेवेन चर्या गमनं यस्य स सहदेवचर्यः तादृशः सन् दितारिः दिताः खण्डिता अरयो येन तादृशः सन् श्रीलक्ष्मणा श्रिया लक्ष्म्या लक्ष्मभिर्लक्षणैश्च नकुल इत्याख्याम् अपप्रथत् ।। श्लेषालंकारः।। राजस्तथा सुप्रजसः कुलस्य सर्वस्य सोऽतीव जनस्य जातः । शत्रुघ्ननामाभ्युदयैकहेतुः पुत्रं पुनातं(नं) हि कुलं निराहुः ॥ ३० ॥ राज्ञ इति ॥ यथा रामलक्ष्मणौ पुत्रौ जाती, तथा राज्ञो दशरथस्य सुप्रजसः कामिन्याः स शत्रुघ्ननामा पुत्रो जातः, यः सर्वस्य कुलस्य जनस्य अतीव अभ्युदयैकहेतुः । हि यतः कुलं पुनातं (न) पुत्र निराहुः ॥ उक्तं च-'पुष्णाति धर्म हि कुलक्रमेण समागतं यः कृपया प्रपूतम् । कुलं पुनात(न) जनकस्य कीर्त्या पुत्रं पवित्र प्रवदन्ति शिष्टाः ॥' भारतीयपक्षे शत्रुघ्नं नाम यस्य स नकुलः सर्वस्यातीवाभ्युदयैकहैतुर्जात इत्यन्वयः ॥ अर्थान्तरन्यासः ॥ सर्वः कुमारः सुकुमारमूर्तिः सोष्णीषमूर्धोन्नतिरौणिकीभ्रूः । आलिङ्गितश्रीकरकंकणाङ्कमार्गादिवावर्तितकण्ठरेखः ॥ ३१ ॥ सर्व इति ॥ सुकुमारा मूर्तिर्यस्य स, उष्णीषण ब्रह्मद्वारस्थोच्चप्रदेशप्रन्थिलक्षणविशे- पेण सहिता म उन्नतिर्यस्य सः, ऊर्णायां ध्रुवोरन्तरावर्ते नियुक्ते ध्रुवौ यस्य । 'तत्र नि- युक्तः' इति ठकि 'वृद्धिनिमित्तस्य-' इति पुंवद्भावनिषेधः । आलिहितायाः श्रिया लक्ष्म्याः शोभायाः करकंकणस्य चिहवतो मार्गादिव आवर्तिता कण्ठरेखा यस्य स सर्वः Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/३७&oldid=234481" इत्यस्माद् प्रतिप्राप्तम्