एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। कुमारः कथंचित् पितुौरख ललो इति तृतीयश्लोकस्थक्रियया संवन्धः ॥ उत्प्रेक्षा ॥ ऊर्जखलः पर्वतभित्तिवक्षा निगूढजानुद्वयलम्बबाहुः। गम्भीरनाभिः स बृहनितम्बः श्रीगोपुरस्तम्भनिभायतोरुः ॥ ३२॥ ऊर्जस्वल इति ॥ निगडं जानुद्वयं यस्य तारशः । लम्बौ वाहू यस्य । श्रीगोपुरस्तम्भेन निभे आयते उरू यस्य सः ॥ उपमा । चतुर्दशद्वन्द्वसमानदेहः सर्वेषु शास्त्रेषु कृत्तावतारः। गुणाधिकः प्रश्रयभङ्गभीरुः पितुः कथंचिद्गुरुतां ललझे ॥ ३३ ॥ चतुति ॥ भू-लोचन-नासा-कपोल-कर्ण-ओष्ठ-स्कन्ध-बाहु-पाणि-स्तन-पार्श्व-उरु. जबा-पादानां चतुर्दशानां द्वन्द्वेन समानो देहो यस्य ॥ अन्त्यदीपकम् ॥ तत्यान पुत्रो विनयं न कश्चिजहौ पिता नानुनयं कदाचित् । यतः पितापुत्रमनन्यदाशं कस्यापि नाभूदपरुद्धवृत्तम् ॥ ३४ ॥ सत्याजेति ॥ यतः पितापुत्रं ताततनयम् कस्यापि अन्योन्यम् न अन्यस्मिनाशा यस्य तादर्श सत् । 'अषष्ठयतीयास्थस्य- इति दुगागमः । अपरुद्धवृत लौकिकव्यवहार- निन्याचरणं नाभूत् । तस्मात् कश्चित्पुत्रः स्वपितरि विनयं न तत्याज । तथा पिता स्व- पुत्रेषु कदाचित् अनुनयं प्रसादं न जहौ । निश्चयालंकारः॥ तं द्रोणसंशब्दनमादधानं गुरुं प्रणम्यादित चापविद्याम् । राजन्यकं तां विजही विरुद्धां ग्राह्यं च हेयं च भवेगुरुभ्यः ॥ ३५॥ तमिति ॥ राजन्यानां समूहः द्रोणसंशब्दनं मेयध्वनि द्रोणसंज्ञां चाददानं ते गुरु पितर- माधार्य च प्रणम्य चापविद्या धनुर्विद्यामादित, विरुद्धामसम्यग्विद्यां तो चापविद्या वि. जही, यतो गुरुभ्यस्तदुपदेशात्सम्यग्प्राह्यम्, असम्यग्धेयं भवेदेव ।। श्लेषः ॥ पदप्रयोगे निपुणं विनामे संधौ विसर्गे च कृतावधानम् । सर्वेषु शास्त्रषु जितश्रमं सच्चापेऽपि न व्याकरणं मुमोच ॥ ३६॥ पदेति॥ पदानां सुप्सिङन्तानां वैशाखलीदप्रत्यालीढलक्षणोपलक्षितानां व प्रयोगे रच. नायो विन्यासे च, निपुणं दक्षम्, विनामे षत्वणत्वयोः शरनम्रीकरणे च, संधौ प्रस्तवणे. कत्रीकरणे शरसंधाने च, विसर्गे प्रकटीक्रियतेऽकार(१)संश्लिष्टार्थो येन तत्र सरत्यागे च, कृतावधानं विहितोद्यमम्, सर्वेषु शास्रषु वृत्तरितसमासैकशेषादिषु राजव्यधापच्छेदा- दिचित्रेषु च, जितश्रम विहिताभ्यासम्, तद्वाजयन्कं चापेऽपि धनुर्विद्यायामपि व्याकरणं तत्साम्यं न मुमोच त्यक्तवान् ॥ श्लेषः ।। उत्प्रेक्षणे लक्ष्यविधौ च दक्षं धर्मे नदीर्ण पटु शब्दभेदे । निष्णातमुच्चैरचनासु चैतचापेऽपि तत्याज न काव्यकर्म ।। ३७ ।। Digitzed by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/३८&oldid=234482" इत्यस्माद् प्रतिप्राप्तम्