एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ सर्गः] द्विसंधानम् । उत्प्रक्षेति ॥ उत्प्रेक्षणे उत्प्रेक्षालंकारे दृष्टमुष्टयौरवलोकने च, लक्ष्यविधी अर्थनिरूप. मायां वेधव्यधायां च, दक्षम्, धर्मे अष्टादशस्थलव्यावर्णनलक्षणे धर्मार्थकामरूपे त्रिवर्गे का धनुर्गुणे च, नदीर्ण प्रवीणम्, शब्दभेदे तत्तद्देशनियतप्रयोक्तव्यशब्दविमागे शब्दमेव ल. क्ष्यीकृत्य शरमोक्षणे च, पटु कुशलम् , उच्चै रचनासु खहचकलागलमुरजाविषन्धरचनासु दण्डस्वस्तिकाहितुरगचक्रव्यूहादिषु च निष्णातं तीक्ष्यधिषणम्, एतदाजन्यकं यापेऽपि काव्यकर्म न तत्याज ॥ श्लेषः ॥ __ आमण्डलीभूतशरासनस्य ज्याघोषवित्रासितदिग्गजस्य । त्रैलोक्यमालीढपदस्य मध्यमापत्य लीनं तदमस्त रुष्टम् ॥ ३८ ॥ आमण्डेति ॥ रुष्टं कपितम्, तद्राजन्यकं कर्त, त्रैलोक्यं भुवनत्रयम् आ समन्तान्म- ण्डलीभतं कुण्डलीमतं शरासनं यस्य ताशस्य ज्याया घोषेण विवासिता दिग्गजा येन तादृशस्य आलीढस्थानविशेषस्य मध्यम् आपत्य आगत्य लीनं द्रवभावेन परिणतम् अ- मंस्त ॥ उत्प्रेक्षा। एवं चूडाताडितपादं परभूपा भक्त्यैकैकेयेयमुपेयुः शरणं यम् । सोमीतोऽयं तत्र समन्ताद्भरतोऽभूत्पुत्रः सर्वोपायविधानतिशत्रुः ॥ ३९ ॥ एवमिति ॥ एवं रामलक्ष्मणशत्रुघ्नोत्पत्तिप्रकारेण सः, अयं प्रत्यक्षदृष्टः, अभीतो नि- र्भयः, यद्वा अयं शुमावहविधिम् अभि समन्तादितः प्राप्तः, सर्वेषामुपायानां सामदानादीनां विधानैः समन्तात् जिसशत्रु: भरतः तत्रामा पुत्रः तत्र दशरथे राजनि अभूदजनि, यं कैकेयेयं कैकेय्या अपत्यं चूडाताडितपादं मुकुटाग्रमणिचुम्बितचरणे यथा स्यात्तथा भक्त्यै सेवायै शरण परभपाः शत्रव उपेयः॥भारतीयपक्षे-तत्र पाण्डनृपे सर्वः पुत्रोभरतः सद्वेश्यः अपायविधानः नीतिशास्त्रीयमार्गविपरीतक्रियाभिः समन्ताजितशत्रुरभूत्, यम् अयेयम् यातुमशक्यम् एकैके असहायाः सन्तः भक्त्या इति विशेषः श्लेषः ॥ मसमयूर बत्तम् ॥ श्रिया विलोलो मरतो न जातः सुतो विनीतः सकलो बभूव । भज्येत राज्यं विनीतपुत्रं घुणाहतं काष्ठमिव क्षणेन ॥ ४० ॥ प्रियेति ॥ भरतो नाम सुतः श्रिया लक्ष्म्या विलोलवबलो न जातः किंतु विनीतो नमः सकलः कलाभिर्गणितपठितवेणुवीणादिभिः सहितश्च बभूव ॥ भारतीयपक्षे- सकलः सुतः श्रिया लक्ष्म्या आविलः युक्तः सन् लोभरतो लुब्धो न जातः इति विशेषः ॥षार्थान्तरन्यासः तस्मिन्काले लीलया धार्तराष्ट्रास्ते कौरव्याभासमानस्वरूपाः । आलोकान्तकान्तकीर्तिप्रतापा न्याय्यस्थित्यापारपारा इवास्थुः ॥ ४१ ॥ तस्मिमिति ॥ लीलया गतिविशेषेण धार्तराष्ट्रा हंसोपमाः यद्वा लीलया हेलामात्रे णापि धृतं राष्ट्रं पशुधान्याहिरण्यादिसंपदा राजते तत् यैस्ते धृतराष्ट्राः ततः स्वार्थिकोऽण, Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/३९&oldid=234483" इत्यस्माद् प्रतिप्राप्तम्