एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। बुद्धिम्, हितप्रिये भवोद्भवामवरतानन्तदुःखपरम्पराविमाशहेतुत्वादनन्तसुखविषादस्वादा- स्मकार्ये धर्मलक्षणे प्रतिकूलमति विपरीततया जनयन्ति । यतो देहभृताम् इह लोके परलोके च तत्र मित्रशत्रुलाने दूरतमा मतिः ॥ अर्थान्तरन्यासः॥ क नृपो भरतोऽमराचिंतो भुवनं येन बभूव भारतम् । क्षणिकाः सकलाः समागमाः कृतमेकं हि विवर्तते परम् ॥ ८॥ केति ॥ हि निश्चयेन कृतं विहितं पर केवलम् एक विवर्तते विपरिणमति ॥ हिममुष्णहतस्य यत्सुखं शिशिराम्यर्दितचेतसोऽनलः । क्षणदुःखनिषेधकारणं न सुखं नित्यमुशन्ति योगिनः ॥ ९॥ हिममिति ॥ योगिनः क्षणदुःखनिषेधकारणं सुखं नित्यं न उशन्ति । यदपायि पयः सुतेन यद्विसुताभिः ससृजेऽनु मातृभिः । मधुरं लवणं च किं द्वयं न पयःक्षारपयोधितोऽधिकम् ॥ १०॥ यदेति ॥ यत् सुतेन पयः क्षीरम् अपायि, यद् वन्ध्याभिर्मातमिरश्रु विसष्टम्, तद् द्वयं मधुरं लवणं च किं क्षीरक्षारसमुद्राभ्यामधिकं न । अपि वधिकमेव । मोह- माहात्म्यम् ॥ विगणय्य तदेवमंहसो विरिरंसन्नभिषेक्तुमग्रिमम् । इति तं व्यनयत्सुतं सतामृणनिश्चित्ततया खनिर्वृतिः ॥ ११ ॥ विगणेति ॥ राजा एवमुक्तप्रकारेण तत्पूर्वोक्तं विगणय्य विचार्य अंहसः पापात् वि. रामं विधातुमिच्छन् ज्येष्ठं तं सुतम् अभिषेक्तुं राजपट्टे अभिषेकं कर्तुम् इति वक्ष्यमाण- रीत्या व्यनयत् शिक्षितवान् । यतः सताम् क्रूणानिष्क्रान्तं चित्तं यस्य तात्रया स्वनिवृतिर्भवन्ति ।। अर्थान्तरन्यासः ॥ युगबद्धमिमं भरं भुवस्त्वमिहैको नृपपुंगवः परम् । धवलो वहसे ततोऽधुना न ममाज्ञामवमन्तुमर्हसि ॥ १२ ॥ युगेति ॥ यस्मात्कारणात् इमं प्रत्यक्षभूतं मद्धृतं युगषद्धं भुवः भरे भारम् इह भूम- ण्डले त्वमेव परं केवलम् एकोऽसहायः नृपपुंगवः नरेन्द्राग्रणीः धवल: शुभ्रः निष्कलङ्कः सन् वहसे वक्ष्यसे ततः कारणाद् अधुना ममाज्ञाम् अवमन्तुं नार्हसि ॥ विजयाय जय स्खमादितो निजकर्मप्रकृति ततो रिपुम् । गमिनः परलोकसाधनं तव मेऽपि स्थितिरीदृशी मता ॥ १३ ॥ विजयेति ॥ गमिनो गन्तुमिच्छतस्तव मम च ईदृशी स्थितिः परलोकसाधनं शत्रु- लोकसाधन पारलौकिकसाधनं मता। कीदृशी । त्वम् आदितः प्रथमतः विजयाय जय- निमिसं स्वमात्मानं जय प्रशमय । अहमपि जयामि । ततस्त्वं निजकर्म अहोरात्रवि- Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/४२&oldid=234494" इत्यस्माद् प्रतिप्राप्तम्