एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ सर्गः द्विसंधानम् । भागक्रियाम् । ततः प्रकृतिम् अमात्यादिसप्तकम् । अहं तु निजकर्मप्रकृतिम् आत्मीयक. मस्वभावम् । ततो रिपुं कामादिषट्कं त्वम् । अहं तु मोहनीयकर्मापि । जय जयामीति क्रियाया यथायोग्यमन्वयः ।। श्लेषः ॥ विहिताखिलसत्त्वरक्षणं धृतसत्यस्थिति वीतमत्सरम् । त्वमितोऽहमिवाभयैकवागसिधारावतधर्ममाचर ॥ १४ ॥ . विहीति ॥ इतः अयप्रभृति, अभयैकवाग् अभयैकवचन: त्वम् असिधारैव व्रतं यत्र ताशधर्मम् । अहं तु असिधारावत्कर्ते धढे चाशक्यं सर्वदर्शनसंमतब्रह्मचर्यरूपव्रतस्य जीवदयारूपधर्मस्य च समाहारम् । विहिताखिलसत्वरक्षणम् । त्वं कृतसकलपाणिरक्षणम्, अहं तु विहितम् अखिलानाम् एकेन्द्रियादिपञ्चेन्द्रियपर्यन्तजीवानां रक्षणं यस्मिन् ता. दृक् । धृतसत्यस्थिति । त्वं धृता सत्येन स्थितियंत्र, अहं तु धृता सत्येऽनलीकवचने स्थितियंत्र तादृक् च । वीतमत्सरम् । त्वं विशेषेण इतः प्राप्तो वीरव्रतनिष्पत्त्यै मत्सरोऽहं- कारो यत्र ताकु, अहं तु विशेषेण इतो गतः मत्सर आत्ममन्यता यत्र ताइक च । यथा स्यात्तथा । त्वम् आचर यथाहमाचरिष्यामि ॥ श्लेषोपमा ॥ विविधानि वसूनि वाहनं बहु देशो दिशतीति वर्णितः । स यथोक्तिमिमामुपप्लवैर्न विहास्यत्यभिरक्ष्यतां तथा ॥ १५ ॥ विवीति ॥ नानाप्रकाराणि द्रव्याणि वाहनं च मत्तमातङ्गतुरंगमादि बहु दिशति वदाति इति निरुत्या देशो वर्णितः । यथा येन प्रकारेण इमां निरुक्तिं स देश उपद्रवैन विज्ञा- सति । तेन प्रकारेण त्वया अभिरक्ष्यताम् ॥ स्वरूपान्वाख्यानम् ॥ उपसान्त्वय कृत्यमात्मनस्तमकृत्यं नय वृद्धिमृद्धिभिः । उभयं परकीयमात्मसात्कुरु नीतेः प्रथमोऽयमुद्यमः ॥ १६ ॥ उपेति ॥ कृत्यं परैर्भत्तुं शक्यम् । 'कृती छेदने' इत्यतः 'ऋदुपधात्-' इति क्यप् । आत्मीयं प्रशमय, अमेयम् ऋद्धिभिवृद्धि नय, परकीयम् उभयं भेयाभेद्यमात्मवशगं कुरु । अयं नीतेः प्रथम उद्यमः ॥ स्वभावाख्यानम् ॥ विधिना खलु दीयतेऽखिलं न नृपो दत्त इति स्म मा भवत् । विधिरेष सतां यमोऽसतामिति भूयाज्जनतासु ते कथा ॥ १७ ॥ विधिनेति ॥ अखिलं विधिना दीयते, नृपो न दत्ते इति ते कथा मास्म भवत् । एष राजा सतां विधिः असता यम इति ते कथा जनसमूहे भूयात् ॥ स्वभावान्याख्यानम् ॥ वसुनोपचितेन संभवेदिह धर्मेण परत्र तु त्रयम् । उभयत्र न तन्मनोभुवा भुवि येन त्रयमत्र तक्रियाः॥ १८ ॥ वसुनेति ॥ इह लोके अर्थेन पुष्टिं नीतेन त्रयं धर्मार्थकामाख्यं संभवेत, परलोके तु ध- Digitzed b, Google Insert non-formatted text here

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/४३&oldid=234495" इत्यस्माद् प्रतिप्राप्तम्