एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। हरीति ॥ हरिविष्टरमध्ये सिंहासनमध्यम् आस्थितः, प्रचलचामरचारसंहतिः प्रचलन्ती चामराणां चावी मनोझा संहतिः श्रेणिर्यस्य स युवा समुद्रवीचिभिः जलधिकलोलैः आहतं. तारित वेलाचलं खलु निश्चयेन जिगाय जितवान् ।। उपकर्ण्य तथा नरेश्वरं पितरि प्रागपि कोपधूमिते । हृदये द्विषतां समुत्थितः प्रलयज्वाल इवानलोऽधिकः ॥ ३०॥ उपेति ॥ पितरि सति प्राक् कोपधूमिते द्विषतां हृदये तथा अभिषिक्तं नूनं नरेवर श्रुत्वा । प्रलये ज्वाला यस्य स इव । अधिकः प्रचुरः अनल: अमिः समुस्थितः उत्पन्नः।। उपमा॥ स नवाजिषु लब्धविक्रमः कृतरूढिनंगजेषु दन्तिषु । निजधान तथापि विद्विषं सहसापत्तिचयेन वर्जितः ॥ ३१ ॥ स नवेति ॥ नवाजिषु नूबसङ्गामेषु लब्धपराक्रमः, नगजेषु गिरिसमुद्भूतेषु कृतरूढिः कृतारोहणः आपत्तिचयेन आपत्समूहेन वर्जितः स सहसा हठादेव विद्विषं निजघान । त. थापि पदेन विरोधः सूच्यते । स च वाजिषु अश्वेषु न लब्धविक्रमः दन्तिषु गजेषु न कतरूढिः दन्तिपदेन मरवद्वीपोद्भवानां दन्तरहितानां ग्रहणव्युदासः, पत्तिचयेन पदातिसमूहेन वर्जितः तथापि शत्रु निजघानेति व्याख्यया । परिहारस्तूक्तः । यद्वा एतेन पराक्रमातिश- योक्तिः खरदूषणादिवधस्यासहायेनैव कृतत्वात् ॥ श्लेषविरोधौ ॥ अजरोऽवनिवृत्तचेष्टितस्ततपकोपविष्टरागतः । स पितामहतां च सङ्गतो विधिरप्येकमुखत्वमागमत् ॥ ३२ ॥ . अजेति॥अजरः न जरा यस्स सोऽजरस्तरुणः कुमारः, अवनिवृत्तचेष्टितः अवनी क्षिती वृत्तं प्रवृत्तं चेष्टितमामा यस्य तादृशः, ततपकोद्भवविष्टरागतः तते विस्तीर्णे पोद्भवे दुर्य- शसि विष्टानां प्रविष्टानां रागं प्रीति तस्थति क्षयं नयतीति । किप । धातुत्वान दीर्घः । विस्तीर्णदुर्यश:प्रविष्टरागविनाशकः, स पितामहतां ब्रह्मा संगत इति विधिरपि ब्रह्मापि एकमुखत्वमागमत् । इति च विरोधः तस्य वृद्धत्वाचतुर्मुखत्वाच । ब्रह्मा तु अजरः नि- त्यवानगन्येष्ठत्वासपोतिशयप्राप्तत्याद्वा न जीर्यतीत्यजरः, विस्तीर्णपङ्कजविष्टरप्राप्तः, महता पिता । परिहारे तु स पिता पालकः, विधिर्जगन्मर्यादाव्यवस्थापकत्वात् , महा सतां सातः संसर्गात् एकमुखत्वं सत्यवक्तृत्वाद्यागमत् ॥ विरोधः ॥ तमुदीक्ष्य नवोदयस्थितं परितापोऽर्कमिवाभवत्तदा । बहुलोभरतस्य भूभुजो निजमातुधृतराष्ट्रनन्मनः ॥ ३३ ॥ . तमिति ॥ तदा नवोदयस्थितमर्कमिव तं राममुदीक्ष्य भरतस्य तत्संबन्धिनः धृतस्प . राष्ट्रस्य हिरण्यादिविभूतेर्जन्मोहिश्य निजमातुः कैकेय्या भूभुजो दशरथनृपमुद्दिश्य बहुल: परितापोऽभवत् ॥ भारतीयपक्षे-बहुलोभरतस्य अत्यन्तलुब्धकस्य धृतराष्ट्रजन्मनो दुर्यो- Dogited o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/४६&oldid=234498" इत्यस्माद् प्रतिप्राप्तम्