एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ ४ सर्गः] द्विसंधानम् अनुकूलफलासु भूभुजा पथि शोकापनुदासु विश्रमम् । व्यपदिश्य दरीष्ववस्थितं तनयानां वसतिष्विव क्षणम् ॥ ४३ ॥ अनुकूलेति ॥ भूभुजा पथि, अनुकूलफलासु प्रतितटाम्रादिफलासु अनायासलभ्यफ- लासु च, चेतोग्लानिच्छित्सु, दरीषु, तनयानां पुत्राणां पुत्रीणां वा वासमन्दिष्विव वि. श्रममुद्दिश्यावस्थितम् ॥ उत्प्रेक्षा ॥ नृपति तमवेक्ष्य तापसाः कृपया हृदयेऽश्रु तत्यजुः । भुवि कः किल कर्कशाशयो महतामुत्सहते विपत्तिषु ।। ४४ ।। नृपतिमिति ॥ कर्कशाशयो निनुरघेताः, महता विपत्तिधूत्सहते ॥ अर्थान्तरन्यासः ॥ सरितः सरितो नगानगानवतीर्णः स बहूपकारकः । विषयान्विषयानुपेक्षितां वशवर्तीव गतो न्यशामयत् ॥ ४५॥ सरित इति ॥ क्शवी योगी इव विषयान्त्रग्वनिताचन्दनादीनुपेक्षते इत्येवं शीलता गतः प्राप्तः सन् बहूनामुपकारकोऽपि स तास्तास्तांस्तानवतीर्णः सन् न्यशामयत् । द. दर्श ॥ उपमा ॥ निगमानिनदैः शिखण्डिनां सुभगान्धैनुकहुंकृतैरपि । स ददर्श वनस्य गोचरान्कृकवाकूत्पतनक्षमानृपः ॥ ४६ ।। निगमानिति ॥ स भूपः मयूराणां निनदैः शब्दैः तथा धेनुसमूहहुँकतैश्च सुभगान्म. नोहरान निगमान् भक्तमामान तथा कृकवाकूनो कुछुटानामुत्पतनक्षमान् वनविषयान ददर्श ॥ समुच्चयः ॥ स विषाणविधूतरोधसं सहसापस्किरमाणमैक्षत । शिरसि स्थितपकमिच्छया प्रधनस्येव भटं गवां पतिम् ॥ ४७ ॥ स वीति ॥ स रामो युधिष्ठिरश्च, विषाणविधूतरोधसं शृङ्गोत्क्षिप्ततटम् । शिरसि स्थि- तपत वर्तमानकर्दमम्, सहसा शीघ्र प्रधनस्य योधनस्येच्छया अपस्किरमाणं अग्रचरणखु- राभ्यां भूमिमुल्लिखन्तम्, गा पति घृषम् । हस्तिदन्तप्रहारपलायितावरकम, स्थिताने- कमारणजन्यम्, योधनस्येच्छया हठात् 'यत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्ष- यांलभते लोकान्यदिक्की न भाषते ॥ इत्युक्तहर्षेण जीविकार्थ वा शत्ररो विलिख- न्तम् । भटपक्षे चतुष्पाच्छकुनित्वाभावात्सुडागमश्चिन्त्यः । भटं शूरमिव ऐक्षत ॥ श्लेषोपमा ॥ तृणकौतुककंकणोचितां विलुलोके स विवृत्य गोपिकाम् । स्तनभारनतां प्रजापतेः श्रममस्थानगतं विचिन्तयन् ॥ १८ ॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/४९&oldid=234501" इत्यस्माद् प्रतिप्राप्तम्