एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ सर्गः] द्विसंधानम् । थदिरामतयाविना नृपाः कृतराज्या इव सानुभावनाः। यशसा च युतास्तदेतया बहुचिन्ताहतया किमु श्रिया ॥ ५३॥ यदीति ॥ यदि नृपा राजतया राजभावेन विना (अपि) 'कृतराज्या इव' सानुभावना: समाहात्म्याः च पुनः यशसा युता भवेयुः । तदा बहुचिन्ताहतया बलथा चिन्तया आहतया एतया श्रिया किमु ॥ पक्षान्तरे-यत् यस्मात्कारणात्, सानुभावनाः पर्वत. नितम्पस्थितिकाः सन्तः, इराजतया इराया भूमेः अजः क्षेपो यस्य तत्त्वेन पृथिवीपरि- त्यागेन अविना युक्ताः नृपाः कृतराज्या इव यशसा युता भवेयुः। तत्तस्मात्कारणात बहूनां चिन्तया आहतया एतया श्रिया अहो किम् ॥ श्लेषः । चमरा व्यजनेन वीजयन्ति द्विरदास्ते दधते च नित्यसेवाम् । शबराः शिबिरेषु बद्धगेयाः किमु राज्येन गतेन वा स्थितेन ॥५४॥ चमरा इति ॥ शिविरेषु निवेशेषु चमराश्चमर्यो व्यजनेन वीजयन्ति, ते रेवातीरस- मुद्भवा द्विरदा दधते धरन्ति, शबराः पुलिन्दाः बद्धगेया विरचितगानाः सन्तो नित्यसेवां धरन्ति, एषु विषयेषु सत्सु राज्येन गतेन स्थितेन वा किम् । यद्वा स्थितेनेव गतेनापि राज्येन सर्वे उपस्कारा भवन्तीति नास्माकं खेदः ॥ यथा स्थितराज्येन चामरधरादयः संभवन्ति, तथा न गतेन ॥ आक्षेपः ॥ वृत्तमिदं वैतालीयभेदः॥ त्वामभ्युपैतु पुनरभ्युदयाय दीप्तिरौत्सुक्यमागतवतीव रवि दिनादौ । ध्वान्तं विसर्पति तवानुदयानय त्वं कालेऽभिवृद्धिमभिमानधनंजयं च ॥१५॥ इति श्रीधनंजयविरचिते धनंजयाङ्के राघवपाण्डवीयापरपर्याये द्विसंधानकाव्य राम- पाण्डवारण्यवर्णनो नाम चतुर्थः सर्गः समाप्तः । त्वामिति ॥ हे राजन्, त्वां भवन्तं पुनः औत्सुक्यं आगतवती दीप्तिः प्रतापलक्षणा अभ्युदयाय विभवाय । दिनस्यादी अभ्युदयाय उदयाय दीप्तिः प्रकाशो रविमिव । अभ्यापैत । तव अनुदयाद ध्वान्तं अनीतिलक्षणं तमस्तमश्च विसर्पति । तस्मात्त्वं काले अभिमानमानधनं जयं च अभिमानं धन जयं च अभिवृद्धि नय ॥ वसन्ततिलकावृत्तम् ॥ इति श्रीदाधीचजातिकुदालोपनामकश्रीछोटीलालात्मजश्रीबदरीनाथविरचिताया. द्विसंधानकाव्यटीकायां वनगमनो नाम चतुर्थः सर्गः। पञ्चमः सर्गः। ततो वनं देशमनेकमेव पुण्याश्रमं तीर्थमतीत्य राजा । गूढः प्रदीप्त्यारविराटभूमि स्फीतांसकोदण्डकलक्षितांसः ॥ १॥ तत इति ॥ ततो वनप्रवेशानन्तरं स्फीतांसकः पीनोन्नतस्कन्धः प्रदीप्त्या क्षात्रते. जसा रविरिव स राजा रामः अनेकमेव नानाप्रकारमेव पुण्यानां पवित्राणामाश्रमं पवित्र. Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/५१&oldid=234503" इत्यस्माद् प्रतिप्राप्तम्