एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । विलेषणमिति ॥ विश्लेषण वियोजन विसंधि च संधिकार्य संयोजन संहिताकार्य च विग्रहं कलह वृत्त्यर्थावबोधकवाक्यं च, समस्तसंस्या सकलव्यवस्था समस्तकारकक्रियादि. स्थिति च, सद्धितार्थ हितजनकं तत् तद्धितानामयं च ॥स कामः प्राथमिकच्छात्र इव जातः ॥ श्लेषोपमा ॥ स रोपणान्पश्च मयि प्रयुज्य शेषं जनं हन्ति तु वापयक्षा । संतापको नो घटको मनोभूरयस्कृतो बाल इवेति दध्यौ ॥ ११ ॥ सरोपेति ॥ स कामः, लोहकारवालक इव संतापक एव नतु घटक इति शूर्पणखा कीचकच दध्यो । श्लेषोपमा ॥ तस्याविशेषेण कृताभिलाषात्तापेन गण्डूषविमुक्तमम्मः । शुचौ करेणोरिव दारणेन मूषागतं ताम्रमियोष्णमासीत् ॥ १२ ॥ तस्येति ॥ तस्याः शूर्पणखाया विशेषतः शुचौ प्रीष्मे करेणोईस्तिन्या इव गण्डूषविमु- क्तमम्भः मूषागतं ताम्रमिव उष्णम् आसीत् ॥ भारतीयपक्षे-तस्य कीचकस्य अविशे- षतः ॥श्लेषोपमा ॥ तस्यावतंसोत्पलपत्रमैत्री गतैः कटार्षिवशान्तरात्मा । नाजीगणन्मानमसौ कुलं वा कामातुराणां हि कुतो विवेकः ॥१३॥ तस्येति ॥ असौ शूर्पणखा तस्य लक्ष्मणस्य अवतंसोत्पलपत्रमैत्री कर्णभूषणकमल- दलसादृश्यं गतैः प्राप्तैः कटाक्षैः स्वाभाविकनेत्रविकारैः विवशान्तरात्मा विलान्तरा सती मानं कुलं वा न अजीगणत् ॥ हि यतः कामातुराणां विवेकः कुतः ॥ भारतीय. पक्षे-असौ कीचकः तसाः द्रौपया वसेत्यत्र 'अवाप्योरुपसर्गयोः' इत्यकारलोपः) । श्लेषार्थान्तरन्यासौ ॥ तत्रैव चेतोनयनेन्द्रियेषु स्थितेषु दूतेष्विव लोमितेषु । जातेषु चान्तःप्रकृतिक्षतेषु देहावशेषेण कथंचिदस्थात् ॥ १४ ॥ तत्रैवेति ॥ चेतोनयनेन्द्रियेषु तत्रैव लक्ष्मण एव लोभितेषु दूतेषु इव स्थितेषु सत्सु च पुनः अन्तःप्रकविक्षतेषु अन्तरणस्वभावनाशेषु अन्तः प्रकृतौ क्षतेषु जातेषु देहावशेषेण शरीरावशेषतः कथंचित् महत्ता कष्टेन (शूर्पणखा) अस्थात् ॥ भारतीयपक्षे-तत्रैव द्रौ- पद्यामेव (कीचक:)॥षः। ततश्चकाङ्क स्मरमोहहेतुं बलाद्रहीतुं सविशीर्णचेताः। तान्तादयुक्तस्थितिरेत्य सान्तं नाशे हि जन्तुं मतिरप्यपैति॥१५॥ तत इति ॥ ततः सविशीर्णताः विदीर्णचेतसा सहिता, तान्ता क्षीणा । सान्त सायाः शोभाया अङ्गलावण्यस्य अन्तं विनाशम् , एत्य प्राण्य अपयुक्तस्थितिरन्यायमार्गप्र- Diguzed o; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/५४&oldid=234508" इत्यस्माद् प्रतिप्राप्तम्