एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। मम मतियुद्धिः शक्तिर्वलं च अस्ति । तस्मात्त्वम् भागच्छ युद्ध संपादय । त्वं रिपुवंशदावं रिपोर्वेशं द्यतः खण्डयतो जनान अवति रक्षति तं घरोत्यं धराया उत्या उत्थतिर्यस्मात्तम्, दशक 'सत्यं शौचं तथा शौर्य स्थैर्य शौण्डीर्यधीरते । क्षमा गम्भीरता चैव नैतुर्य चापि मश्रिता ॥ एतैरवयवैर्युक्तो जिगीषुः पृथिवीपतिः । इत्युक्तलक्षणा दश अवयवा यस्य तम्, मत्तो मत्सकाशाद, प्रतापं कथं न वेसि ॥ श्लेषः ॥ इतीरयित्वाहितकम्पवेगं दष्टाधरं स्फारितरक्तनेत्रम् । भ्रूभङ्गजिस्रं कृतसिंहनादं जग्राह कायं भरतान्वयस्य ॥ ३०॥ इतीति । असौ शूर्पणखा, कीचकश्च, इत्येवं प्रकारेण, ईरयित्वा अभिषाय, आहित. कम्पवेगमारोपितकम्पजवम् , दष्टाधरं चर्वितोष्ठम्, स्फारितरक्तनेत्रम् प्रसारितलोहितलो- चनम्, भूमाजिचं भ्रूभगमन्दम्, कृतसिंहनादं विस्तीर्णसिंहनादम्, यथा स्यात्तथा भरता- न्वयस्य भरतानुजस्य लक्ष्मणस्य, सोमवंश्यस्य भीमस्य च, कार्य जप्राह ॥ चकम्पिरे किंपुरुषा भयेन दिशां विनेशुर्नगजा गजाश्च । मर्मप्रहारैः परुषैर्वचोभिस्तयोरभूत्तत्र महान्विमर्दः ।। ३१ ॥ चकम्पिर इति ॥ तत्र दण्डकारण्ये तयोर्लक्ष्मणशूर्पणखयोः, मर्मप्रहारैर्ममच्छिद्रिः, परुषैः कठोरैः, वचोभिः महान् विमर्दो युद्धम् अभूत् । तदा किंपुरुषा देवविशेषाः, चकम्पिरे, दिशा गजा नगजा पर्वतजाश्च विनेशः या पुरुषा एव किं चकम्पिरे अपि तु किंपुरुषा अपि । नगजा एव गजा किं विनेशुः । अपि तु दिशां गजाः ॥ भारतीये-तत्र विराटभूमौ तयोर्भीमकीचकयोः । तदा पुरुषा युधिष्ठिरादयः किं चकम्पिरे । अपि तु न । दिशां नगजाश्च गजाः । किं विनेशुः । अपि तु न ॥ श्लेषः ॥ असंस्तुतं प्राप्य ततो निकारं भीमेन तेनोपहतात्मवृत्तिः । देशादयासीनियमेन कर्तु क्षणादसौ विग्रहपीडितानि ॥ ३२ ॥ असंस्तुतमिति ॥ भीमेन भयानकेन, तेन लक्ष्मणेन, उपहतात्मवृत्तिः भमस्वरूपा, असौ शूर्पणखा ततो लक्ष्मणतः असंस्तुतमपरिचितं निकारं पराभवं प्राप्य नियमेन अव- श्यम् विग्रहपीडितानि युद्धमर्दनानि कर्तु क्षणादन्तर्मुहूर्तात् देशादण्डकारण्यतः, अयासीत् अपगता ॥ भारतीयेतेन भीमेन वृकोदरेण, असौ कीचकः । ततो भीमतः । विग्रहपी. रितानि तपश्चर्यया शरीरकदर्थनानि । देशाद्विराटभूमितः ॥ तथावधूतोऽपकृतिं गतोऽपि जित्वा रुषं संयममेत्य राजा । स वैरसंदेहमयं विहाय न्यायानुवृत्तिं पदवीं प्रपेदे ॥ ३३ ।। तथेति ॥ सोऽयं राजा लक्ष्मणः, तथा तेन प्रकारेण वधूतो नारीतः शूर्पणखायाः स- काशात् अपकृतिमपकारं गतोऽपि सन् रुषं जित्वा संयमम् एत्य वैरसंदेहं विहाय न्याया- नुवृत्ति नीत्यनुयायिनी पदवी मार्ग प्रपेदे ॥ भारतीये--अपकृति गतोऽपि स राजा की- Dosguced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/५८&oldid=234512" इत्यस्माद् प्रतिप्राप्तम्