एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । परेधूतः । उच्चाल्यमाना प्रेर्यमाणा । रथ्या रथसमूहः वेश्या इव । विरोधेन वैरण, कलह- व्याजेन च । स्थानात्प्रदेशात् । क्षणं मुहूर्तम् । चचाल चलितवती ॥ श्लेषोपमा ॥ उदात्तवंशं बहुधातुरङ्गैरूढं समुत्कङ्कटकप्रधानम् । युयुत्सु गच्छत्प्रकटोत्थदानं तद्धास्तिकं कावचिकं च रेजे ॥ ३८ ॥ उदासति ॥ उदात्तवंशम् उच्चपृष्ठवंशम् , उदारान्वयं च । बहुधातुरझर्वहूनां धातूनां मैरिकादीनां रखैः रूदं विभक्तम् , बहुधा बहुप्रकारेण तुरङ्गैर श्वैः अढं धृतं च । समुत्कं समुत्कण्ठितं कटकप्रधानं कटके स्कन्धावारे प्रधानम्, समुत् सानन्दं कङ्कटकप्रधानं संनाहसनाथं च 1 प्रकटोत्थदानं प्रकर्षण कटाभ्यां कपोलाभ्याम् उत्थमुत्थितं दानं मदो यस्य तादृक्, प्रव्यक्तनैसर्गिकत्यागं च । युयुत्सु योद्धुमिच्छत् । गच्छत् चलत् तत् हास्तिकं हस्तिसमूहः, कावचिकं कवचिसमूहश्च । रेजे भाति स्म ॥ श्लेषः ॥ शाओणि चापानि समुत्क्षिपन्तस्ते कञ्चकं कार्दमिकं प्रविष्टाः । धनुर्भूतोऽभ्युद्धतनीलशृङ्गाः कृष्णाः पशूनां समजा इवाभुः ॥३९॥ शायणीति ॥ शाईचापानां शृङ्गम्, कार्दमिककञ्चुकस्य कृष्णवर्ण उपमानम् ॥ नृणामसीनां वसुनन्दकानां पार्थोपरोधं स्फुरता प्रवाहाः । खिन्दारुणानां विरराजिरेऽमी द्रुता इव त्रापुषजातुषौघाः ॥ ४०॥ नृणामिति ॥ नृणां पुरुषाणां पार्थोपरोधम् उभयपार्श्वमुपरुध्य स्फुरतां शोभमानानाम्, स्विन्दारुणानां श्वेतशोणानाम् असीनां खङ्गानां वसुनन्दकानां हस्तस्फुराणां अमी प्रवाहा द्रुता द्रवीभूताः त्रापुषजातुषौघाः त्रपुजतुविकारप्रवाहा इव विरराजिरे शुशुभिरे । असित्र- पुणोः श्वैत्यम्, वसुनन्दकजतुनोः शोणतेति सादृश्यम् ।। भूर्जद्रुमस्येव विहायसश्चेत्त्वचश्युताः स्युर्विधुता मरुद्भिः । तथा भवेयुः पथि वैजयन्त्यः कालस्य जिह्वा इव वा ललन्त्यः॥ ४१ ॥ भूर्जेति ॥ वैद्यदि मरुद्भिर्वातर्विधुताः कम्पिताः च्युताः पतिताः विहायसो गगनस्य भूर्जद्रुमस्य इव त्वचः, यथा स्युः । तथा पथि मार्गे ललन्त्यश्चलन्त्यः, वैजयन्त्यः पताकाः कालस्य यमस्य जिला इव वा भवेयुः । उत्प्रेक्षा ॥ प्रभा विमानं समुपेत्य यातां कौक्षेयकैस्तिग्मकरैः स्फुरद्भिः । केषांचिदभ्रोदरमुत्पतन्त्या लीलोन्नतालम्भि तडिल्लतायाः ॥ ४२॥ प्रभेति ॥ विमानं विशिष्टसत्कार स्वस्वस्वामितः समुपेत्य प्राप्य प्रभा दीप्तीः यातां प्रा. सवताम् केषांचिद् भटानाम्, तिग्मकरैस्तीक्ष्णकिरणैः, स्फुरद्भिः झलकायमानैः कौक्षेयकैः खड़ेः कर्तृभिः अभ्रोदरं जलधरमध्यम् उत्पतन्त्या उद्यं गच्छन्त्याः तडिल्लताया विद्युल्लताया उन्नता उच्चा लीला शोभा अलम्भि प्राप्तालिप्तोपमा ॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/६०&oldid=234515" इत्यस्माद् प्रतिप्राप्तम्