एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ काव्यमाला। मयी दृष्टिश्च सैन्यमयी कामविमानभूमिः गगनम् रजोमयी धूलीप्रचुरा शङ्का आत्मसंहार- मयी बभूव ॥ समुच्चयः॥ इत्यद्रिकुञ्जान्सरितः सरांसि स्वपच्छयूच्छासचलं वनं च । विप्लावयन्ती तमियाय देशमक्षौहिणी वारिधिमापगेव ॥ ४९॥ इतीति ॥ इत्युक्तप्रकारेण अक्षौहिणी अद्रिकुआशैलकटकसमूहान्, सरितो नदीः सरांसि सरोवराणि स्वपच्छयूच्छासचलं निद्राणाजगरघोणाविनिर्गतवातचश्चलं वनं च विप्लावयन्ती सती ते देशं दण्डकारण्यं विराटदेशं च आपगा नदी वारिधिम् इव इ. याय प्राप॥ ततो गभीरश्चरितैरगाधैवलन्निवान्तःकरणेन कुप्यन् । स्पृष्टानुमेयस्फुरितोदराग्निरुच्चैरुदन्वानिव दीप्यमानः ॥१०॥ पतिर्मंगाणां गजबृंहितेन कल्पान्तमेघेन च सुप्रतीकः । यथा सुधांश्वभ्युदये च वार्षिः क्षोभं रिपूणां निनदेन गच्छन् ॥ ५१ ॥ स संजिहीर्षन्निव जीवलोकं यमेन कुर्वन्निव दृष्टियुद्धम् । वमन्निव क्रोधहुताशराशि गिलन्निवाशाः स्थगयन्निवार्कम् ॥५२॥ आदित्सया मानधनस्य सैन्यमभ्यर्णमाकर्ण्य विकीर्णनादम् । द्विषः सदो दाशरथी रयेणाव्यापत्सहेनावरजेन भीमः ॥ १३ ॥ (चतुर्भिः कुलकम्) तत इत्यादि ॥ ततोऽक्षोहिणीप्राप्त्यनन्तरम् अगाधैर्गम्भीरैः चरितैराचरणैः अगाधो गम्भीरः । अन्तःकरणेन हृदयेन ज्वलन् दहन इव, कुप्यन् कोपं गच्छन् उद- न्वानुदधिः इव, स्पृष्टानुमेयस्फुरितोदराभिः स्पृष्टेन स्पर्शेन अनुमेयः प्रमाणगोचरः स्फुरितो विजम्भितः उदराग्निर्जठराग्निर्यस्य ताइकू सन् उच्चैरतिशयेन दीप्यमानः प्रज्वाल्य- मानः । गजबूंहितेन करिचीत्कृतेन मृगाणां पतिः सिंह इव, कल्पान्तमेघेन प्रलयकालजल- देन सुप्रतीक ईशानाशागज इव, सुधांश्वभ्युदये चन्द्रोदये वाधिः समुद्र इव,रिपूणां निनदेन ध्वनिना क्षोमं गच्छन्व्रजन् । जीवलोकं प्राणिवर्ग संजिहीर्षन् संहर्तुमिच्छन् इव । यमेन कृतान्तेन सह दृष्टियुद्धं विलोचनयुद्धं कुर्वन् विदधत् इव । क्रोधहुताशराशि क्रोधानला- वली वमन् उद्गिरन् इव । आशा दिशो गिलन् उदरमध्ये कुर्वन् इव । अर्के सूर्य स्थग- यन् प्रच्छादयन् इव । स भीमो रौद्रो दाशरथी रामः सहेन समर्थेन अवरजेन कनिष्ठेन लक्ष्मणेन सह विकीर्णनादं विस्तीर्णध्वनि सैन्यं बलम् अभ्यर्ण निकटम् आकर्ण्य श्रुत्वा मानधनस्य गर्वधनस्य आदित्सया जिघृक्षया द्विषः शत्रोः सदः सभा रयेण वेगेन व्यापत् व्याप्तवान् । भारतीये-स रथी भीमो वृकोदरः सदा सर्वदा व्यापत्सहेन विपत्सहिष्णुना अवरजेनार्जुनेन, अमानधनस्य प्रचुरगोधनस्य आदित्सया द्विषः शत्रून् उदाश उच्चैर्भक्षया- मास ॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/६२&oldid=234517" इत्यस्माद् प्रतिप्राप्तम्