एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ सर्गः] द्विसंधानम् । शङ्खा निनेदुः पटहाश्चुकूजुर्गजा जग स्तुरगा निहेषुः । वीरा ववल्गुः शकटा विरेसुरासीदकूपाररवः समन्तात् ॥ १४ ॥ शङ्खा इति ॥ अकूपाररवः समुद्रघोष इव ॥ समुच्चयः ॥ बभुः पुराणाः स्फुटिता भटानां व्रणा रणानन्दथुनिर्भरेण । स्वामिप्रसादानसहा निरोद्धं देहाः खयं भेदमिवाभ्युपेयुः ॥ ५५ ॥ भुरिति ॥ भटानां योधानां पुराणाः पुरातना व्रणा अरूषि रणानन्दथुनिर्भरेण सं- ग्रामहर्षाधिक्येन स्फुटिताः सन्तो बभुः शोभन्ते स्म । स्वामिप्रसादान् प्रभुसत्कारान् निरोद्धं कर्तुम् असहा असमर्था देहाः कायाः स्वयमात्मना भेदम् अभ्युपेयुरिव ॥ उत्प्रेक्षा ॥ सूता नृपाणां युधि नामधेयं वृत्तं निपेठुः कृतवृत्तबन्धम् । दग्धानि कर्पूररजांसि भूपाः स्ववर्मणोऽन्तश्वकरुः श्रमार्ताः ॥ १६ ॥ सूता इति ॥ सूता बन्दिजनाः युधि संग्रामे नामधेयं नाना धेयं नामवितं कृतवृ- तबन्धं कृतछन्दोविशेषरचनं वृत्तमाचरितं निपेठुः पठितवन्तः । श्रमार्ताः श्रमपीडिताः सङ्गामायाससंतप्ताः भूपा राजानः स्ववर्मणः आत्मीयसनहनस्य अन्तर्मध्ये दग्धानि चूर्णी- कृतानि कर्पूररजांसि धनसाररेणून् चकरुविक्षिप्तवन्तः ॥ समुच्चयः ॥ विशुद्धवंशानि गुणानतानि प्रपीड्यमानान्यपि कामुकाणि । पर्यङ्कमारोप्य विलालितानि मित्राणि मत्वेव कृतं विनेमुः ॥ १७ ॥ विशुद्धवंशेति ॥ विशुद्धवंशानि अवक्रमस्कराणि पूतान्वयानि च । गुणानतानि मौर्वी- नम्रीकृतानि शौयौदार्यादिनम्रीभूतानि च । प्रपीड्यमानानि ताडितानि, अपि कार्मुकाणि धनूंषि, कृतं करणीय मत्वा पर्यवं शय्याम् आरोप्य, विलालितानि मित्राणि सुहृद इव विनेमुः विनमन्ति स्म ॥ श्लेषः ॥ वश्यानि मुष्टेरगतानि भेदं धनूंषि नम्राणि विपक्षमाणि । खदेहलीनां स्थितिमत्यजन्ति नृणां कलत्राणि हितान्यतीयुः॥१८॥ वश्यानीति ॥ मुष्टेः करतलाङ्गालिबन्धस्य, आझायाश्चावश्यानि वशं गतानि । भेदं भर पृथक्त्वं च अगतानि अप्राप्तानि । नम्राणि 1 विपत्क्षमाणि आपत्समर्थानि । स्वदेहलीना. मात्मशरीरसंश्लिष्टां स्वकीयमन्दिरकुतुपानां च । स्थितिमवस्थानं मर्यादां च । अत्यजन्ति । हितानि हितजनकानि । धषि कार्मुकाणि नृणां पुरुषाणां कलत्राणि कुलकामिनीरतीयुर- तिकान्तवन्ति ॥ श्लेषः ॥ खयं समानम्य शरासनानि स्तम्भं च हित्वा मधुरं ध्वनन्ति । प्रारेभिरेऽन्यान्विनतान्विधातुं परान्विनम्राः खलु नामयन्ति ॥ १९ ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/६३&oldid=234518" इत्यस्माद् प्रतिप्राप्तम्