एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। स्वयामिति ॥ शरासनानि धनंषि स्वयं समानम्य नम्रीभूय स्तम्भं स्तब्धता हित्वा म- धुरं यथा स्यात्तथा ध्वनन्ति नदन्ति सन्ति अन्यान् विनतान् विधातुं प्रारेभिरे । खलु यतः विनम्राः परान् नामयन्ति ॥ अर्थान्तरन्यासः ॥ ऋजुप्रकारेषु गुणेषु बाणाः शल्यं वहन्तो दधतो विपक्षान् । क्षणं न तस्थुश्चपलाः स्थिरेषु वाताः खलानामिव सज्जनेषु ॥ ६॥ ऋज्विति ॥ पाणाः शल्यं दधतो विपक्षान् वहन्तः कुर्वन्तः चपला ऋजुप्रकारेषु स्थि- रेषु गुणेषु मौर्वीषु सजनेषु खलानां बाताः समूहा इव क्षणं न तस्थुः॥ विशेषणयोगो यथा- संभवम् ।। उपमा ॥ समुनिरन्तो नु शफान्मुखेभ्यश्छायो त्यजन्तः किमु पश्चिमार्धम् । देहान्क्षिपन्तो नु दृशां पुरस्ताद्विश्वेऽपि तेऽश्वल्लिषुरश्ववर्याः ॥६१ ॥ देहानिति ॥ शफान्खुरान् मुखेभ्यः समुगिरन्तः किम्, छायां पश्चिमाधै पश्चिममागे त्यजन्तः किम् , दशां पुरस्तादेहान् क्षिपन्तः किमिति वितर्कमानयन्तोऽश्ववर्या अश्वल्लिषुः आशुगतवन्तः ।। उत्प्रेक्षा । रुद्धं शिलोत्कीर्णमिवावतस्थे मुक्तं चलं चित्तमिवाभ्यधावत् । अश्वीयमावर्तितमावृतत्तत्कुलालचक्रभ्रमलाघवेन ॥ १२॥ रुद्धमिति । तत् लोकप्रसिद्धम् अश्वीयमश्वसमूहो रुद्धं सतूशिलायामुत्कीर्णमिवावतस्थे, मुक्तं सत् चश्चलं चित्तभिवाभ्यधावत् , आवर्तितं सत् कुलालचक्रभ्रमलाघवेन आवृतत् बभ्राम ।। उपमा ॥ रम्याः पदार्था इव मानसानि स्वान्तानि जीवानिव जन्तवोऽपि । देहानिवात्याचकृषुस्तुरंगाः स्कन्धान्तरन्यस्तयुगा स्थौघान् ॥ ६३ ॥ रम्या इति ॥ स्कन्धान्तरे न्यस्तो युगो यैस्ते तुरंगा रथौघान् रम्याः पदार्था मानसा- नीव, स्वान्तानि जीवानिव, जन्तवो देहानिव, अत्याचकृषुः ॥ उपमा । नामाददानैः परुषं परेषां निषादिभिः संख्यशिरस्यसंख्याः। प्रासाः पतन्तोऽत्यशुभन्विमुक्ता विन्ध्यस्य वंशा इव वातधूताः॥६४ ॥ नामेति ॥ परेषां शत्रूणां परुषं कर्कशं यथा स्यात्तथा नाम आददाननिषादिभिरश्ववारै- विमुक्ता असंख्या अगणनीया संख्यशिरसि सङ्काममस्तके पतन्तः प्रासा: सेल्ला यष्टयः, वातधूता विन्ध्यस्य वंशा इव, अत्यशुभन् ॥ उत्प्रेक्षा ॥ उत्कीर्णा इव कुलपर्वता गजानामाकारैर्मदनलनिहरं वहन्तः । धावन्ति प्रतिदिशमुन्नताः स्म नागाः क्रोधाग्निज्वलितदृशः सहेमकक्ष्याः ६५ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/६४&oldid=234519" इत्यस्माद् प्रतिप्राप्तम्