एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। धनुरपि दधत्रेपे जिष्णुः सहायविशङ्कया न च भुजबलाद्वीरोऽन्यस्माद्धनंजयमिच्छति ॥ ६९॥ इति श्रीधनंजयविरचिते धनंजयाङ्के द्विसंधानकाव्ये राघवपाण्डवीयापरनानि तुमुल. वर्णनो नाम पञ्चमः सर्गः समाप्तः। इतीति । अग्रजं रामं युधिष्ठिर भीमं च, अनुगतः पश्चागतः, लक्ष्मीधरो लक्ष्मणो लक्ष्मीवांश्च, जिष्णुः जयमशीलः अर्जुनश्च, इति प्राप्तां प्रतिषन्धिी प्रतिकूलां पृतनां सेना अविद्यामिव दृष्ट्वा जलनिधिरिव क्षुभ्यन् सन् धनुर्दघदपि सहायविशङ्कया ससहायजयक- लन पे लजितः। यतः वीरो भुजयलादन्यस्माद धनं जयं च नेच्छति ॥ अर्थान्तर- न्यासः ॥ हरिणी वृत्तम् । इति श्रीदाधीवजातिकुद्दालोपनामकश्रीच्छोटीलालात्मजश्रीषदरीनाथविरचितायां द्विसंधानकाव्यटीकायां युद्धारम्भवर्णनो नाम पञ्चमः सर्गः । षष्ठः सर्गः। ततः प्रयुक्तभृकुटि स दुर्घरो निजोद्धतं विक्रमकालसाधनः । अरातिघाताय तमग्रज व्रजन्नमर्षमुद्योग इवान्वगद्युतत् ॥ १ ॥ तत इति ॥ प्रयुक्ता भ्रुकुटियेन तं निजोद्धतआत्मगर्वगर्विष्ठम्, तमप्रजं रामं युधिष्ठिर भीमं च अन्वग् अनुगामि यथा स्यात्तथा अरातीनां घाताय व्रजन् सन् दुर्धरो विक्रमकालः पौरुषसमय एव साधनं सैन्यं यस्य सलक्ष्मणोऽर्जुनश्च, अमर्षे क्रोधम् अन्वग्वजन्नुद्योग इव, अद्युतत् ॥ उपमा ॥ सर्गेऽस्मिन्वंशस्थवृत्तम् ॥ कृतातिपातावधिको समुद्धतौ हतावधी चापनयावलम्बिनौ । उभौ न्यरुद्धां निवहं विरोधिनां तमर्थकामाविव धर्मसंग्रहम् ॥ २॥ कृतेति ॥ कृतोऽतिपात उपप्लवो याभ्याम् , अधिकौ क्षात्रधर्मेण सर्वेभ्यः, आत्मतेजसा समुद्धती, हतोऽतिक्रान्तोऽवधिर्मर्यादा ययोः, चापनये धनुर्विद्यायामवलम्बोऽभिमानो ययोस्तादृशौ उभौ रामलक्ष्मणौ भीमार्जनौ च तं विरोधिनां निवई समहम. अपनयमनी. तिमवलम्बमानौ अर्थकामौ धर्मसंप्रहमिव, न्यरुद्धाम् ॥ उपमा ॥ जयश्रियं दक्षिणमंसमंसलौ तनुं महावेगमहंयुतं मनः । शरासनं ज्यां नृपती भयं रिपुं समं समारोपयतः स्म संयति ॥ ३ ॥ अयोति ॥ अंसलौ पीनस्कन्धौ, नृपती रामलक्ष्मणौ भीमार्जुनौ च, दक्षिणमंसं जय- श्रियम्, तनुं महावेगम् , मनः अहंयुतमहंकारम्, शरासनं ज्याम, रिपुं भयम्, सममेककालम् संयति सलमे समारोपयतः स्मः ॥ मत्यर्थत्वेन द्विकर्मकता । समुच्चयः ॥ Digitized b; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/६६&oldid=234521" इत्यस्माद् प्रतिप्राप्तम्