एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ सर्गः] . द्विसंधानम् । ६९ गतेति । गतापशिष्टेषु पलायितशिष्टेषु शुष्कशिष्टेषु केवपि कतिपयेष्वपि पुजैः समु- दायैः फलेषु सैन्येषु तपे प्रीष्मे सरसोऽम्वषु व स्थितेषु सत्सु धनुर्भूतो नायकाः अकाल. मेघा इव समन्ततः सामस्त्येन संनिधि प्राप्ताः ॥ उपमा ॥ पतत्रिनादेन भुजंगयोषितां पपात गर्भः किल तायशङ्कया । नभश्चरा निश्चितमन्त्रसाधना बने भयेनास्यपगारमुद्यताः ॥ १६ ॥ पसत्रीति । नागानानां गर्भः शरध्वनिना मागान्तकशङ्कया पपात किल निश्चयेन । भयेन व्यता नभश्चरा असीनपर्य असिभिरपगूर्य वा वने निश्चितं मत्रसाधनं यस्तादृशा अभूबन् । समुच्चयः॥ समन्ततोऽप्युद्गतधूमकेतवः स्थितोलवाला इव तत्रसुर्दिशः । निपेतुरुल्काः कलमाग्रपिङ्गला यमस्य लम्बाः कुटिला जटा इव ॥१७॥ समन्तेति ॥ उद्गतधूमकेतवो दिशः स्थितोयवाला इव समन्ततः तत्रसुः । शालि- मारीपिाला उल्का लम्बाः कुटिला यमस्य जटा इव निपेतुः ॥ उत्प्रेक्षा ॥ प्रभिनकक्षीवत्ति लोलवाजिनि स्थिते पुरः स्यन्दनभाजि राजके । मनश्चकम्पे वनसंनिवासिनां तयोः क्षणं जीवितसंशयं गतम् ॥ १८ ॥ प्रमिनेति ॥ प्रभिन्नाः कक्षीवन्तो गजा यस्य तस्मिन् , लोलाश्चश्चला वाजिनो यस्य तस्मिन् , स्थन्दनं भजति तस्मिन् , तयो राजके राजसमूहे पुरः स्थिते सति वनसंनिवासिनां मनो जीवितसंशयं गतं सत् क्षणं धकम्पे॥ इतस्ततः संविवरीषतां द्विषां सितातपत्राणि शितार्धचन्द्रकैः।। तयोविलूनानि यशांसि संहति समागतानीव रणाङ्गणेऽपतन् ॥ १९ ॥ इसस्तेति ॥ इतस्ततः संविवरीषता संवरीतमिच्छतां द्विषां शत्रणां सितातपत्राणि श्वे- सच्छत्राणि तयोः शितार्धचन्द्रस्तीक्ष्णवाणविशेषैविलूनानि छिन्नानि संहति समूहं समाग. सानि यशासि इव रणागणे सङ्कामभूमौ भपतन् । उत्प्रेक्षा। रथेषु तेषां जगतीभुजां ध्वमान्महीभुजौ चिच्छिदतुर्भुजानिए । तथा सुरप्रैरनयैः क्रियाफलं मदातिलोभाविव वाजिनां युगम् ॥ २० ॥ स्थेविति ॥ महीभुजौ तेषां जगतीभुजां रथेषु ध्वजान् भुजानिव, तथा वाजिनाम- श्वानां युगम् क्षुरप्रैर्वाणविशेषैः, मदातिलोभी क्रियाफलं कर्मफलम् , अनयैरनीतिभिरिव, चिच्छिदतुः ॥ संकरः ॥ शरेण चूडामणयः किरीटतो विपाटिता नायकतां विहाय ते । कुतोऽपि याता विदिता न भूभृतां पदच्युतानामियमीडशी गतिः॥२१॥ शरेणेति ॥ [तयोः] शरेण भूभृतां किरीटतो विपाटिता उच्छलितास्ते चूडामणयः Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/६९&oldid=234524" इत्यस्माद् प्रतिप्राप्तम्