एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० काव्यमाला। नायकां विहाय कुतोऽपि याता गताः, तथा न विदिता लोचनगोचरा न जाताः । पदच्युतानां स्थानभ्रष्टानाम् इयं प्रत्यक्षभूता ईदृशी गतिर्भवति ॥ अर्थान्तरन्यासः ॥ प्रसह्य ताभ्यां परलोकसाधनः शरैर्नृपाणां गुणवान्पराहतः । मदामिमानाधिकवीर्यसंग्रहाद्वसुसराभ्यामिव धर्मसंचयः ॥ २२ ॥ प्रसोति ॥ अर्थकामाभ्यामिव ताभ्याम् 'ज्ञानं जनं कुलं जाति बलमृद्धिं तपो वपुः । अष्टावाश्रित्य मानित्वं मदमाहुर्गतस्मयाः' इत्युक्तरूपस्य मदस्य, नान्यो मत्तुल्यगुणवानि- त्यभिमानस्य, अधिकपराक्रमस्य घ संग्रहादङ्गीकारात् परलोकसाधनः शत्रुलोकसाधनः स्वर्गसाधनश्च, गुणवान् जीवावान् व्रतादिमांश्च, नृपाणां धर्मसंचयः चापसमूहः पुण्यस- चयश्च, प्रसह्य शरैः पराहतो निराकृतः ॥ उपमा । स सागरावर्तधनुर्धरो नरोनभःसदा कामविमानसंहतिम् । अयत्नसंस्कृप्तगवाक्षपद्धति चकार शातैर्विशिखैविहायसि ॥ २३ ॥ स सागेति ॥ सागरावर्तधनुर्धरः सागरस्य समुद्रस्य सगरधनुषो वा आवर्ता इवावर्ता यस्य तं सागरावर्त नाम वा धनुर्धरति स नरः शातैस्तीक्ष्णैः, शरैः विहायसि गगने, अय- मसंकप्ता स्वयंसिदैव वातायनश्रेणिर्यस्यास्तां नमःसदा देवानां कामविमानसंहति यथेष्ट- विमानसमूह चकार । तद्युद्धदर्शनाय देवा अध्यायाताः । भारतीयपक्षे-विहायसि वि. हानं विहः । कप्रत्ययान्तः । विहानि विशिष्टप्रवृत्त्योपलक्षितानि अयांसि लोहानि यत्रेति संगरे अनभासदां मनुष्याणां काममत्यर्थे विगतो मानो यस्यास्तां संहतिम् अयनसंकृप्तग- . वाक्षपद्धतिम् अयमेन संकृप्ता विहिता गवां पशूनाम् अक्षपद्धतिरिन्द्रियवर्गो यस्यां ताम्, अयनेन अनायासेन संकप्ता छिन्ना गवां वाणीनामक्षाणामिन्द्रियाणां पद्धतिर्वर्गों यस्या ए- तादृशीं चकार ॥ श्लेषः ॥ कणैर्गजास्तेन विलूनपुष्करा बभुः स्रवन्तः क्षतनानि धारया। बृहन्नितम्बा दवदाहनीलिता नगाः क्षर रिकनिझरा इव ॥ २४ ॥ कणैरिति ॥ तेन नृपयुगलेन कणैर्बाणैः विलूनपुष्कराश्छिन्नक्षुण्डामाः गजाः धारया क्षतजानि रुधिराणि सवन्तः सन्तः, वृहनितम्बाः स्थूलसानवः, दवदाहेन नीलिताः, क्ष- रन्तो गैरिकनिझरा येभ्यस्तादृशा नगाः पर्वता इव, बभुः ॥ उत्प्रेक्षा ।। रथप्रयुक्तस्य हयस्य पश्चिमे शरैविलूने पदयोयेंगेऽमुना । पुरःपदोत्क्रान्तधुरस्य चामरैर्मृगाधिपस्येव सटैः क्रमोऽभवत् ॥ २५ ॥ स्थति ॥ रथे प्रयुक्तस्य पुरःपदैरप्रचरणैरुत्कान्ता धूर्येन तस्य यस्य पश्चिमे पदयो- गुंगले अमुना शरैर्विलूने सति चामरैः प्रकीर्णकैः, मृगाधिपस्य सिंहस्य सटैः केशरैरिव, क्रमोऽभवत् ।। उत्प्रेक्षा ॥ Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/७०&oldid=234525" इत्यस्माद् प्रतिप्राप्तम्