एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ सर्गः] द्विसंधानम् । हतैकपादं युधि तस्य रोपणैः क्षणै निषण्णं सुहृदीव कार्मुके। परत्र राजन्यकमेकपादकं तपस्यतीव स जिगीषया रिपोः ॥ २६ ॥ हतैकेति ॥ तस्स रोपणैर्याणैर्हतैकपादं सत् क्षणं, सुहृदीव, कार्मुके निषण्णं राजन्य- कमेकपादक सत् परलोके रिपोर्जिगीषया तपस्यति स्मेव ॥ उत्प्रेक्षा ॥ स सूर्यहासं किमसिं किमर्गलां गदां नु पाशं नु परश्वधं धनुः । दधत्किमित्याकलितो न भीरुभिर्मतिः कुतो वा चलितेषु धातुषु ॥२७॥ स सूर्येति ॥ स कि सूर्यहासमसिम् किम् अर्गलाम् कि गर्दा कि पार्श कि परश्वध किं धनुः दधत् इति भीरुभिर्न आकलितः । धातुषु चलितेषु मतिः कुतः ॥ अर्थान्तरन्यासः ॥ . स शात्रवाणां हृदि शल्यमुद्धरन्खशस्त्रशल्येन जगाम बन्धुताम् । समुन्नता यत्कुपिताश्च कुर्वते न तत्प्रतीता ह्यपि दुर्जनाः प्रियम् ॥२८॥ स शात्रवेति ॥ स स्वशस्त्रशल्येन शात्रवाणां हृदि शल्यमुद्धरनुत्पाटयन् सन् बन्धुतां जगाम । यत् कुपिता अपि समुन्नताः सत्पुरुषाः कुर्वते तत् प्रतीताः प्रसन्ना अपि दुर्जनाः प्रियं न कुर्वते । अर्थान्तरन्यासः ॥ नृपा नृपत्वं न शराः शरात्मतां न कार्मुकं कार्मुकतां तुरंगमाः। तुरंगतां तिष्ठिघिरे न संयुगे विमुञ्चति ज्यायसि बाणसंहतिम् ॥ २९ ॥ नृपा इति ॥ ज्यायसि ज्येष्ठे भ्रातरि संयुगे वाणसंघात विमुश्चति सति ते सर्वे स्वधर्म न प्राप्तवन्तः । नृपत्वं भूपत्वं क्षात्रधर्मश्च, शरात्मता बाणता प्राणिमारणं च, कार्मुकता धनुष्टं कर्मवत्ता च, तुरंगता अश्वता शीघ्रगामिता च । अत्र पूर्वार्थे विरोधः, परार्थे परि- हारः ॥ समुच्चयश्लेषौ ॥ गजेषु नष्टेष्वगजेष्वनायक रथेषु भग्नेषु मनोरथेषु च । . न शून्यचित्तं युधि राजपुत्रक पुरातनं चित्रमिवाशुभदृशम् ॥ ३०॥

गजेष्विति ॥ राजपुत्रकं युधि पर्वतजेषु करिषु नष्टेषु रथेषु च पुनः मनोरथेषु भनेषु

सत्सु अनायकमसहायं शून्यं चित्तं यस्य तादृशं सत् भृशम्, पुरातनं चित्रभिव, अशुभत् । विरोधाक्षेपौ ॥ प्रभावतो बाणचयस्य मोक्तरि प्रभावतोषे समरे स्थिते नृपाः । प्रभावतो हीनतया विवर्जिता प्रभावतो ही न तया रराजिरे ॥ ३१ ॥ (पादादियमकम्) - प्रभेति ॥ प्रभावतो दीप्तिमतः शरसंघस्य मोक्तरि अतीधे प्रभौ समरे स्थिते सति नृपाः Dosguced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/७१&oldid=234526" इत्यस्माद् प्रतिप्राप्तम्