एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काममाला । प्रभावतः प्रकृष्टभावयुक्तेन फलं रातुं समर्थन प्रभावतः प्रतापन विवर्जिताः सन्तः सया हीनतया कातरतया ही कष्टम् न राजिरे ॥ आदियमकम् ॥ गजा नियन्तन्करशीकरोत्करैर्विमुक्तसूत्कारमिषूपदारितान् । निशारशीतैरुदमीमिलनहो महीयसां प्रीतिररंसुदेष्वपि ॥ ३२॥ . गजा इति ॥ गजा इषुभिरुपदारितान् नियन्तन् निशारशीतैः हिमांशुशीतलैः करवि- मुक्तजललवन्दैः विमुक्तसूत्कारं यथा स्यासथा उदजीवयन् । अहो महीयसां अरुं- तुदेष्वपि प्रीतिः ॥ ज्वलत्यमुष्मिन्कुपिते महीपतावनेकबन्धानि विमावसाविव । प्रिये जनानां ननृतू रणे तथा वने कबन्धानि विभावसाविव ॥ ३३ ॥ (अन्त्यपादयमकम्) ज्वलेति ॥ प्रजानाम् असावित्र प्रिये विभौ अस्मिन्महीपतौ कुपिते बने विभावसा. विव रणे ज्वलति सति अनेकबन्धानि नानाविधकरणानि कवन्धानि ननृतुः ॥ अन्सयमकम् ॥ तयोः पतन्त्यः शरपञ्जरान्तरं विरेजुरुस्रातपयष्टयः स्फुटम् । यमेन शुद्धामिषसंजिघत्सया तनूभृतां पा इवावतानिताः ॥ ३४ ॥ तयोरिति । तयोः शरपञ्जरान्तरं वाणवीथिमध्यं पतन्त्यः उनातपयष्टयः किरणालो- कयष्टयः, यमेन शुद्धाभिषसंजिघत्सया केवलं मांसभक्षणवाञ्छ्या अवतानिताः प्रसारिताः पर्वः कक्षिप्रदेशास्पीनि इव, स्फुटं यथा स्यात्तथा विरेजुः ॥ उत्प्रेक्षा ॥ शरैः समस्तः खरदूषणो रिपुः समं सतोऽभीतमहानराजितः । विशीर्णचेताः कृतयुद्धविक्रमः समन्ततोऽभीतमहा न राजितः ॥ ३५ ॥ शरैरिति ॥ ततो लोकप्रसिद्धात् अभीतमहानराजितः निर्भयमहापुरुषरामलक्ष्मणस. कामात समै युगपत् शरणिः समस्तः संतर्जितः अतएव विशीर्णचेताः विह्वलचित्तः कृतयुद्धविक्रमः विहितसङ्कामपराक्रमः अभीतमहा अभि समन्तादित गर्त महो यस्य सः सामस्त्येन नष्टतेजाः खरदूषणो रिपुः खरदूषणनामा शत्रुः समन्ततः सामस्त्येन न राजितः म शोभितः ॥ भारतीयपक्षे—अभीतमहानराजितः अभीतो भीमः महानरोऽर्जुनः तयो- राजितः सङ्क्रामतः संमुखागतार्जुनसङ्कामतो वा शरैः ततो व्याप्तः समस्तः सकलः खर- दूषणः तीव्रापराधो रिपुः कृतयुद्धविक्रमः विहितयुद्धविगतशक्तिः । लेषः ।। चिरस्य युद्धा स पपात निष्क्रियः सहैव शुद्धान्तवधूजनाश्रुभिः । सुरासुराणां कुसुमाञ्जलिर्दिवस्तयोरपप्तन्मधुपायिभिः समम् ॥ ३६ ॥ घिरसेति ॥ स रिपुः विरस्य चिरकालं युवा निष्क्रियः सन् शुद्धान्तवधूजनाश्रुभिः Digunced to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/७२&oldid=233022" इत्यस्माद् प्रतिप्राप्तम्