एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ६ सर्गः] द्विसंधानम् । भयाद्यदेवोद्गतमङ्गनानां देवासुराणां प्रधनोत्सुकानाम् । तदेव हर्षस्य तयोर्जयेन रोमाञ्चमस्याप्युपकारि जातम् ॥ १८ ॥ भयादिति ॥ यदेव रोमाचं प्रधनोत्सुकानां रणोत्कानां देवासुराणां सुरदैत्यानामङ्गनानां कामिनीनां भयाजातम् , तदेव रोमाश्च तयोरेन्द्रयोर्जयेन अस्स हर्षस्याप्युपकारिजातम् ॥ उपजातिः॥ आशा मुक्ता बन्धनेनेव सर्वा दीर्घ तत्रोदश्वसीदेव भूमिः। युद्धे वृत्ते विश्रमं विश्वमागान्नो विश्रान्तः कंदरे सिंहनादः ॥ ४९॥ आशा इति ॥ युद्धे वृत्ते समाप्ते सति सर्वा आशा दिशो बन्धनेन मुक्ता इव जाताः, भूमिः तत्र रणभूमौ दीर्धे यथा स्यात्तथा उदश्वसीदेव, विश्वं जगत् विश्रममागात् विश्रा. न्तम्, कंदरे सिंहनादस्तु न विश्रान्तः ॥ शालिनी वृत्तम् ॥ वियति सिद्धगणोऽप्युपवीणयञ्जलधरान्तरदर्शितविग्रहः । त्रिभुवनं भ्रमति स यशस्तयोः किमु मुहुर्मुमुहुर्न चवैरिणः॥५०॥ वियतीति । जलपरान्तरदर्शितविग्रहः मेघमध्यप्रकटिसशरीरः सिद्धगणोऽपि विवति आकाशे तयोर्नरेन्द्रयोर्यश उपवीणयन् वीणवा गायन सनू त्रिभवनं भ्रमति स्म च पुन- वैरिणः किमु मुहुर्न मुमुहुः । अपि तु मुमुहुरेवे ।। द्रुतविलम्बित वृत्तम् ।। प्रतिनिनदमयासीदेवतूर्यदिगन्तश्चलदलिकुलनीला पुष्पवृष्टिः पपात । स्तुतिमकृत सरखत्यम्बरेऽदृश्यरूपा कुसुमसुरभिरुच्चैरुद्ववौ मातरिश्वा॥५१॥ प्रतिनिनेति ॥ दिगन्तः देवसूर्यैः सुरवायैः प्रतिनिनदं प्रतिध्वानम् अयासीत् , चलदलिकुलनीला भ्रमझमरभरश्यामा पुष्पवृष्टिः पपात, अम्बरे गगने अदृश्यरूपा सरस्वती स्तुतिमकृत, कुसुमसुरभिः पुष्पगन्धी मातरिश्वा पवन उच्चैदौ ॥ मा. लिनी वृत्तम् ॥ लोकातिरिक्तमनयोर्बलशौर्यवीर्यमालोक्य रूपमभिमानधनंजयं च । मोक्तुं नचैकमुभयोरशकजयश्रीन्तिा स्वयंवर विवाहपतिवरेव ॥१२॥ इति श्रीधनंजयविरचिते धनंजयाङ्के द्विसंधानकाव्ये राघवपाण्डवीयापरनानि खरदूषणवधगोप्रहनिवर्तनं नाम षष्ठः सर्गः समाप्तः । लोकेति ॥ जयश्रीरनयोनरेन्द्रयोौंकातिरिक्तमलौकिकं बलशौर्यवीर्यमेतत्समाहारम् रूपम् अभिमानधनं जयं चालोक्य प्रान्ता सती, स्वयंवरविवाहपतिवरा इव, उभयोनरेन्द्र- योरेकमपि मोक्तुं त्यक्तु नाशकत् ॥ वसन्ततिलका वृत्तम् ।। इति श्रीदाधीचजातिकुद्दालोपनामकश्रीच्छोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां खरदूषणवधगोप्रहनिवर्तनं नाम षष्ठः सर्गः । Digticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/७५&oldid=234528" इत्यस्माद् प्रतिप्राप्तम्