एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। सप्तमः सर्गः। अत्रान्तरे शरच्छन्नदिग्दशास्यः सपुष्पकः । चन्द्रहासकरः कालो बाणासनपरिग्रहः ॥१॥ दीयारविन्दिनं लोकं विश्वं कुर्वन्निवाकुलम् । दुःखलब्धात्मसंभूति खसारं मानयन्मुहुः ॥ २ ॥ पद्मस्योदर्कसंतापं भेदं कुवलयस्य च । सानाध्यं बन्धुजीवानां कर्तुकामः समागमत् ॥३॥ (त्रिमिविशेषकम्) अत्रेत्यादि । अत्रान्तरे खरदूषणवधानन्तरम् । शरच्छन्नदिक् शरैश्छन्ना दिशो येन सः। सपुष्पकः पुष्पकण विमानेन सहितः । चन्द्रहासकरः चन्द्रहासनामकखड्गयुक्तकरः । कालः कालवर्णः । वाणासन धनुरेव परिग्रहो यस्य । स दशास्यो रावणः । दीप्त्या तेजसा रविं सू. र्यम्. (तस्याकलत्वेन) दिनं दिवसम् (दिवसस्य सूर्यकृतलात), विश्वं समस्तं लोक ज- गत् , (दिनादिव्याकुलत्वेन) आकुलं कुर्वन् इव । दुःखलब्धात्मसंभूति दुःखेन लब्ध आत्मसंभूतिः शम्बुकुमाराख्यपुत्रो यया तां स्वसारं भगिनी मुहुः मानयन् सन् । पद्मस्य रामस्य उदर्कसंतापमुत्तरकालकदुःखं कुवलयस्य भूमण्डलस्य भेदं बन्धुजीवानां बान्धवानां सानाध्यं साहाय्यं कर्तुकामः समागच्छत् ॥ भारतीयपक्षे–अत्रान्तरे गोग्रानिवृत्त्युत्तर छन्नदिग्दशास्यः छन्नानि दिशो दश आस्यानि (अर्थादशदिशः) येन सः । सपुष्पकः पु- रुपकैः सहितः। चन्द्रहासकरः चन्द्रस्य दासं द्युतिं करोति सः । बाणासनपरिग्रहः । वा. णासनौ वृक्षा एव परिग्रहो यस्य सः । शरत् कालः शरहतुः । दीप्त्या धर्मणा विश्वं लोकम् आकुलं अरविन्दिनं कमलिनं कुर्वन् इव । दुःखलब्धात्मसंभूति कष्टप्राप्तात्मोत्पत्ति स्व- सारं स्व एव सारो यस्मिन्कर्मणि यथा स्यात्तथा मुहुः मानयन् जानन् । पद्मस्य पयोजस्य उदर्कसंतापम् उद्गतसूर्यसंतापम् कुवलयस्य कुमुदस्य भेदं विकाशम्, बन्धुजीवानां मा. ध्याङ्गिकपुष्पाणां सानाध्यं सस्वामिकलं कर्तुकामः समागमत् समाजगाम ॥ श्लेषः । सर्गेऽस्मिन्ननुष्ट छन्दः । तथा तं वीक्ष्य वियति व्यभ्रे चेलुः सुरासुराः । स्थित्यतिक्रमभीतेन शस्त्रमिन्द्रेण संहृतम् ॥ ४ ॥ तथेति । अत्र शक्रादीनां रावणदर्शनेन भयम्, शरद्दर्शनेन सोत्सवत्वम्, दर्शयति स्थि- त्यतिक्रमभीतेन स्थानत्यागभीतेन अवस्थानोलानभीरुणा इन्द्रेण शक्रेण शस्त्रं धनुः संह- तम् । शरदि शक्रधनुषो हरणात् ॥ श्लेषः ॥ उत्पलायतलोलाक्षः कामुकीभिरुपारतः । किंनराणां गणः क्रीडन्प्रसन्नपवने वने ॥५॥ उत्पलेति ॥ लोलाक्षः चकितलोचन: कामुकीभिः भार्याभिः सह उपारत उपद्रुतः । प्रस. Digitzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/७६&oldid=234529" इत्यस्माद् प्रतिप्राप्तम्