एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ सर्गः] द्विसंधानम् । शम्य आकर्ण्य अरण्ये वने तपः कुर्वता मुनीनाम् अपि आस्वनितस्य मनसः क्षोमश्चालन- मासीत् ॥ विश्वेन वारिणा तस्मिन्द्योतमाने महीयसि । _____ कलुषत्वं परित्यक्तं स्वच्छत्वमुपपादितम् ॥ १७ ॥ विश्वेनेति ॥ महीयसि गरिष्ठे तस्मिन् रावणे द्योतमाने प्रतपति सति विश्वेन सर्वेण अरिणा शत्रुणा कालुष्यं परित्यक्तं स्वच्छत्वं प्रसन्नता उपपादितम् ॥ शरत्पक्षे-तस्मि- उशरदि वारिणा जलेन । स्वच्छत्वं निर्मलत्वम् ।। श्लेषः ॥ वप्राणां रम्यतालक्ष्मीः सोत्पलाशालिसंपदाम् । तेन पक्कफलापाण्डुरानिन्ये लङ्घनक्रियाम् ॥१८॥ वप्राणामिति ॥ तेन रावणेन सोत्पलाशालिसंपदाम् सोच्चब्रह्मवृक्षभ्रमरविभूतीनामुच्च- पलाशवृक्षश्रेणिरूपसंपदा सहितानां वा वप्राणां मृच्चयानां पक्कैः फलैरापाण्डू रमणीयत्वशोभा लानक्रियामास्कन्दनक्रियामानिन्ये । शरत्पक्षे तेन शरत्कालेन शालिसंपदा शालय एव संपद्येषां तेषां वप्राणां केदाराणां सोत्पला उत्पलैः कमलैः सहिता पक्कफला पक्कानि फलानि यस्यां सा पाण्डः ॥ श्लेषः॥ किंशुकाकुलभूमीनां नगानां फलसंपदः । नामिताः परिपक्वाणां कृता रभसयामुना ॥ १९॥ किंशुकेति ॥ अमुना रावणेन रभसया औत्सुक्येन विमानवेगेन किंशुकाकुलभूमीनां किंशुकैः पलाशकुसुमैराकुला भूमिर्येषां तेषां परिपक्काणां पाकपर्यायप्राप्तानां नगानां वृ. क्षाणां फलसंपदः नामिता नम्राः कृताः॥ शरत्पक्षे–अमुना शरत्कालेन शुकाकुलभूमीनां शुकैः कीरैराकुला भूमिर्येषां तेषां परिपक्काणां नगानां शालिवृक्षाणाम् अमिताः प्रचुराः फलसंपदो न कृताः किम् । अपि तु कृता एव ॥ श्लेषः ॥ तस्मिन्कालेऽनुजोपायात्प्रस्थितं प्रतिकेशवम् । विश्वविश्वंभरानाथमित्थमूचेऽग्रज वचः ॥२०॥ तस्मिमिति ॥ तस्मिन्काले अनुजा शूर्पणखा विश्वविश्वंभरानाथम् अग्रज रावणम् उपायात् समागता इत्यं प्रस्थितं वनप्राप्त केशवं प्रति लक्षीकृत्य वच उचे ॥ प्रतिकेशवं केशवाभिमुख्येन प्रस्थितमप्रजम् । इत्थं वक्ष्यमाणप्रकारेण उपायात् सामादिप्रयोगात् वच उचे इति वान्वयः ॥ भारतपक्ष-तस्मिशरत्काले अनुजो भीमः प्रतिकेशवं प्रस्थित- माजं युधिष्ठिरम् अपायात् घृतेन सकलपृथ्वीहरणात् ॥ श्लेषः ॥ प्रतिकर्तुं परीभावं जरासंधाभियोगजम् । उद्यमोजातशत्रोस्ते समावहति मे रुचिम् ॥ २१ ॥ प्रतिकर्तुमिसि ॥ जातशत्रोर्जातः शत्रुर्यस्य तस्य ते तव रावणस्य उद्यम उद्योगो Digitzed bo, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/७९&oldid=234538" इत्यस्माद् प्रतिप्राप्तम्