एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ सर्गः] द्विसंधानम् । प्रभावीति ॥ प्रभाविशारदं प्रभया विशारदं प्रवीणम् । तव रावणस्य वीर्यम् उद्यो- गाय । अखिलं समस्तम् परमाध्यात्मिक तत्त्वं निर्वाणाय मोक्षाय इव । दीप्यते ॥भा. रतीयपक्षे-प्रभावि प्रभाववत् प्रभामवतीति दीप्तिरक्षकं वा शारदं शरदि भवं शारदम् ॥ श्लेषोपमा ॥ देवावदातवितता दिशः सह विहायसा । सूचयन्ति विना विघ्नासिद्धि हस्तगतामिव ॥ २८॥ देवेति ॥ हे देव, अवदातवितता नैर्मल्यं प्राप्ता विहायसा आकाशेन सह सहिता दिशी विघ्नात् अन्तरायात् विना सिद्धिं [हस्तगताम् इव] सूचयन्ति ॥ उत्प्रेक्षा ॥ मृदुराश्वासजननः खरदण्डविघट्टनः । कृतकृत्योऽधिकारीव तवार्यान्वीषिकोऽनिलः ॥ २९ ॥ मृदुरिति ॥ हे आर्य, अनिलो वायुः, मृदुभन्दो मधुरवाक् च, आश्वासजननः शी. तलः प्राणिनामाप्यायनोत्पादकश्च, खरदण्डविघटनः कमलस्पर्शिलेन सुरभिः तीक्ष्णदण्डना. शकश्च, कृतकृत्यः कृतपुण्यः, अधिकारी प्राड्विाक इव, तव, आन्वीपिकोऽनुकूलो वर्त- मानोऽस्ति ॥ श्लेषः॥ भूरिस्तम्बेरमेकान्ते फलशालिवने घने । राजन्कपिशताकीर्णे पश्य त्वं कामनीयकम् ॥ ३० ॥ • भूरिस्तेति ॥ हे राजन् रावण, भूरिस्तम्बेरमे प्रचुरगजे, कान्ते मनोहरे, घने नि- बिडे, कपिशताकीर्णे वानरशतसंकुले फलशालिवने फलशालिनि वने कामनीयकं कम- नीयता पश्य अवलोकय ॥ भारतीयपक्षे-भूरिस्तम्बे प्रदुरझाटकसमूहे फलशालिवने फलोपलक्षितशालिवने कपिशताकीर्णे पिङ्गताव्याप्ते एकान्ते निर्जने अरमत्यर्थम् ॥ श्लेषः॥ शत्रूणां दण्डकक्षेत्रमप्रवि(वे)श्यमिदं धनम् । ___ अभीष्टस्तम्बकरिभिरवंगाढं विलोकय ॥ ३१ ॥ शत्रूणामिति ॥ शत्रूणाम् अप्रवि(वे)श्यं प्रवेष्टुमशक्यम् धनं निविडम् अभीष्टस्तम्बक- रिभिः वाञ्छिततृणादिगुच्छैर्मतङ्गजैरवगाढं विलोडितम् इदं दण्डकक्षेत्रं विलोकय ॥ भा- रतीयपक्षे हे शत्रणां दण्डक, अभीष्ठस्तम्बकरिभिरभिलषितधान्यैरवगाढं व्याप्तं घनं (जनैः) अप्रविवेश्यमिदं क्षेत्र विलोकय ॥ श्लेषः ॥ . अस्मिन्नद्रावितस्थाने गहने पुण्डरीकिणि । प्रफुल्लानोकहच्छन्ने नातिराजति वासरः ॥ ३२ ॥ अस्मिमिति ॥ अस्मिन् अद्रौ पुण्डरीकिणि व्याघ्रवति प्रफुल्लानोकहच्छन्ने प्रकृष्टकुसु- मिततरुमिश्छन्ने गहने इतोऽस्मिन् स्थाने (विसर्गलोपः)वासरी दिवसोन अतिराजते प्र. Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/८१&oldid=234539" इत्यस्माद् प्रतिप्राप्तम्