एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ सर्गः) द्विसंधानम् । ___ सलाक्षिकपदन्यासाः कुडमै रञ्जिता इव । एताश्चोपवने दिव्यस्त्रीणां क्रीडाः सुरान्विताः॥३९॥(त्रिभिः कुलकम्) विक्षिप्तेति ॥ [हे देव] उपवने उद्यानवने एताः सुरतापातसंभ्रमात् संभोगप्रथमारम्भ- व्याकुलत्वात् , विक्षिप्तपुष्पशयना: विकीर्णकुसुमतल्पाः, कामसङ्कामरचना स्मरसमरसंनि- वेशा इव कुसुमेषुचिताः सुमबाणव्याप्ताः, अन्योन्यबन्धनानीतविशसूत्रयुताः परस्परयष्त्र- णायै प्रापितेन पद्मिनीकन्दतन्तुना युता इव अलीककलहाकृष्टसूत्रशेषीकृतस्रजः प्रेमक- लहेन पूर्वमाकृष्टाः पश्चात् सूत्रशेषीकृता स्रजः कुसुममाला यासु ताः, कुङ्कुमै रञ्जिता इव, सलाक्षिकपदन्यासाः लाक्षया रक्तयोः पदयोासेन सहिताः, सुरान्विताः सुरैर्देवैरन्विता दिव्यस्त्रीणां सुरसुन्दरीणां क्रीडाः केलिभूमयः सन्ति । भारतीयपक्षे---दिव्य इति संबो- धनम् । सुरान्विता मदिरायुता प्रशस्तद्रव्ययुक्ता वा ॥ श्लेषः ॥ सरातो वारुणीभूतपरिप्लवविलोचनाः। सिञ्चन्त इव सुधया गायन्तः काकलीकलम् ।। ४० ।। चलत्परिमलासक्तलीलालोलालिसंवृताः । तमालबहुलारण्यमभिविष्टा इव स्फुटम् ॥ ४१ ।। इह किंपुरुषाः पश्य पुष्पाणामुच्चिकीषया । उद्यानेन परिश्रान्ताः संक्रीडन्ते प्रियासखाः॥४२॥ (त्रिभिः कुलकम्) स्मरार्ता इति ॥ इह अद्रौ स्मरार्ताः कंदर्पकदर्थिताः, वारुणीभूतपरिप्लबविलोचनाः वारुण्या भूतः समुत्पन्नः परिप्लवोआकुलता ययोस्ते विलोचने नेत्रे येषां ते, सुधया अमृते. न सिश्चन्त इव काकलीकलं मधुरस्वरमनोहरं यथा स्यात्तथा गायन्तः, चलत्परिमलासक्त. लीलालोलालिसंवृताः चलद्भिः परिमलेवासक्तैलीलालोलैरलिभिभ्रमरैः संवृताः, स्फुट निश्चयेन, तमालबहुलारण्यम् अभिविष्टाः प्रविष्टा इव, उद्यानेन उर्ध्वगमनेन परिश्रान्ताः किंपुरुषाः प्रियासखा भार्यासहायाः सन्तः पुष्पाणाम् उच्चिकीषया उच्चतुमिच्छया संक्री. इन्ते [इति] त्वं पश्य ॥ भारतीयपक्षे-इह उद्याने पुरुषाः किं न संक्रीडन्ते अपि तु संक्रीडन्त एव ॥ अरुणीभूतपरिप्लवविलोचनाः अरुणीभूते परिप्लवे चश्चले विलोचने येषां ते॥श्रेषः ॥ देवाङ्गनापदन्यासगुञ्जद्वलयशिञ्जनाः। मकारालया इव ॥ ४३ ॥ देवेति ॥ देवाङ्गनापदन्यासगुअद्वलयशिक्षनाः देवाङ्गनानां सुरसुन्दरीणां पदन्यासेन गु. अतां वलयानां शिअनं यत्र ते एते लतागृहा कामकारालया कंदर्पकारागृहा इव भा- न्ति ॥ भारतीयपक्षे-देव इति संबोधनम् ॥श्लेषः॥ १० Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/८३&oldid=234541" इत्यस्माद् प्रतिप्राप्तम्