एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । उद्दयोतितदिशः पक्का लोकस्याजीवहेतवः । दिव्योषध्यो विभान्त्येताः परार्थाः सत्क्रिया इव ॥ ४४ ॥ उद्दयोतितेति ॥ उहयोतितदिशः प्रकाशिताशाः, पक्काः प्राप्तपाकाः, लोकस्य आजीव. हेतवः जीवनहेसवः जीवपर्यन्तकारणानि वा एता दिव्योषध्यः परार्थाः सक्रियाः सत्पुरुषाचरणानि इव विभान्ति ॥ भारतीयपक्षे-दिव्य इति संवोधनम् ॥ भूर्जायते प्रदेशेऽस्मिन्सालतालीसमाकुले । अभिख्यातियुता नित्यं शष्पच्छायोदकान्विता ॥ ४५ ॥ भर्जेति ॥ भूर्जायते भर्जेरायते सालतालीसमाकुले सालैपक्षैः तालीवृक्षश्च समाकुले व्याप्ते अस्मिन्प्रदेशे नित्यमुदकान्विता सजला युता मिश्रिता निषिता शष्पच्छाया शष्पर्षा- लतृणैरुपलक्षिता छाया अभिख्याति शोभतेतराम् ॥ भारतीयपक्षे-लतालीसमाकुले व- ल्लीश्रेणिसंकीर्णेऽस्मिन्प्रदेशे अभिख्यातियुता शोभायुक्ता शब्पच्छायोदकान्विता शष्पैः छायया उदकेनान्विता सती सा भूर्भूमिर्जायते ॥ श्लेषः ॥ वैशाखोन्मन्थनोत्कम्पाद्गलन्मूर्धप्रसूनकाः। सुम्लानिजघनाभोगा न्यग्रोधपरिमण्डलाः ॥ ४ ॥ उद्धृतापाण्डुरश्यामविटपायतबाहवः । संक्षिप्तबन्धुरस्कन्धाः प्रवालबहुलश्रियः ॥ ४७ ॥ श्रीमत्तरलतोपेताः सरलाः संगता इतः । प्रियवल्लवलीलाल्या बजकान्ताश्वकासति ॥४८॥ (त्रिभिः कुलकम्) वैशाखेति ॥ हे प्रियवन्, लवलीलाल्या लवलीनां चन्दनलतानामिलानां महीनाम् आल्या श्रेण्या ब्रज । यतो वै निश्चयेन इतोऽस्मिन्प्रदेशे शाखोन्मन्थनोत्कम्पात् शाखावि. लोडनोर्बकम्पात् गलन्मूर्धप्रसूनकाः पतच्छिखरपुष्पाः, सुग्ला म्लानाः, निजघनाभोगाः स्वनितम्बविस्तराः, न्यग्रोधपरिमण्डलाः वटतुल्यषुधाः, उद्धृतापाण्डुरश्यामविटपायतबा- हवः उदृता उद्दण्डा आपाण्डुरश्यामा ईषच्छुक्रश्यामला विटपाः क्षुद्रशाखा एव आयता दीर्घा बाहवो हस्ता येषां ते, संक्षिप्तवन्धुरस्कन्धाः द्वस्वमनोहरशाखाजन्मस्थानाः, प्रवाल- बहलश्रियः प्रवालानां कोमलपत्राणां बहुला श्रीः शोभा येषां ते, श्रीमत्तरलतोपेताः श्रिया शोभया मत्तानां क्षीवाणां रत्नानां भ्रमराणां तोपेन समूहेन च इता युताः । श्रीम. त्तर इति संयोधन वा। संगताः परस्पर मिलिता घनाः, कान्ता मनोज्ञाः सरला देव. दारवः चकासति भासन्ते ॥ भारतीयपक्षे-वैशाखोन्मन्धनोत्कम्पात् वैशाखेन मन्थन- दण्डेन उन्मन्थनाद्विलोडनात् य उत्कम्प अर्वकम्पनम् तस्मात्, गलन्मूर्धप्रसूनकाः । च्यवन्मस्तककुसुमाः, सुग्लानिजघनाभोगाः सुग्लानिमज्जघनाभोगा: अतिक्रेशप्राप्तक- Digitized to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/८४&oldid=234542" इत्यस्माद् प्रतिप्राप्तम्