एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ सर्गः] द्विसंधानम् । टिमध्यप्रदेशाः, न्यग्रोधपरिमण्डलाः तिर्यप्रोषकटिप्रदेशाः, उद्धृतापाण्दुरश्यामविटपाय- तबाहयः उद्दसापाण्डुरश्यामविटपा इव आयता बाहवो यास ताः, संशितवन्धुरस्कन्याः व्यापारितमनोझांसाः, प्रवालबहुलश्रियः प्रकृष्टकेशप्रचुरश्रियः, श्रीमतरलतोपेताः शोभा- चश्चलताभ्यामुपेताः, सरला जवः, संगता मिलिताः, ब्रजकान्ता गोपवधूट्यः इतो. ऽस्मिन्प्रदेशे, प्रियवालवलीलाल्या प्रियगोपकटाक्षमालया (यमकश्लेषबन्धेषु सबिन्दुकाबि- न्दुकयोरभेदात् गुणानामभेदकत्वाद्वा न दोषः) संगता मिलिताश्चकासति ॥ श्लेषः । पद्मरागप्रमाजालं शिखिनः शङ्कयामुतः । विलोक्य वनराजीषु विद्रवन्ति प्रभोगजाः ॥ ४९ ॥ पोति ॥ हे प्रभो, गजा हस्तिनः, अमुतः स्थानात् पद्मरागप्रभाजालं शोणमणिदी- घितिसमूह विलोक्य, शिखिनो वहः, शङ्कया वनराजीषु कान्तारश्रेणिषु, विद्रवन्ति पला- यन्ते । भारतीयपक्षे-अगजाः शिखिनो मयूराः, वनराजीषु जलराशिषु पद्मरागप्रभा- जालं किंजल्ककान्तिश्रेणि विलोक्य अमुतोऽस्मिन्देशे कया प्रियया शं सुखेन विद्रव- न्ति ।। श्लेषः। शस्यकं हरितग्रासबुध्या वातमजा मृगाः।। दौकन्ते चापयन्त्यनिश्चलानां हीदृशी गतिः ॥ ५० ॥ शस्यकमिति ॥ शस्यक नीलमणि, वातमजाः शीघ्रगामिनः, प्रान्त्यर्थान्तरन्यासौ ।। एषा पक्कफलाशालिसंपदम्भोजशालिनी । बहुशोमास्थलीलातिमोहनीयातिरम्यताम् ॥ ११ ॥ एपेति ॥ पक्कफलाशालिसंपत् पक्कफलेच्छुभ्रमरसमूहा, अम्भोजशालिनी पद्मशोभिनी, बहुशोभा प्रचुरदीप्तिः, मोहनीया मोहजननी, एषा स्थली अतिरम्यतां लाति भारतीये- पक्कफलाशा पक्कफलास्वादिनी, भास्थलीलातिमोहिनी भायां तिष्ठन्त्या लीलया मोहोत्पा- दिका, अम्भोजशालिनी एषा अलिसंपत् रम्यतां याति ॥ श्लेषः ।। अपि चामीकरिकुलैः सुतरामाकुलैर्युताः । सिंहकेसरसंछन्ना बहुधान्यातिदुर्गमाः ॥ १२ ॥ रम्यभावोदयादिक्षुद्राक्षापूगैरलंकृताः । प्रथिता नागवल्लीभिः स्फुरन्तीभिरितस्ततः ॥ १३ ॥ सेव्यायामानरहिताः सानुभोगा द्रुमाकुलाः । अस्मिन्नष्टापदोपेतसंचारा दधति श्रियम् ॥१४॥ (त्रिभिः कुलकम्) अपीति ॥ अपि च आफुलैर्व्यप्रैः, करिकुलैर्गजवृन्दैः सुतरामतिशयेन युताः, सिंह- केसरसंछनाः कण्ठीरवकण्ठकेशप्रच्छादिताः, बहुधान्यातिदुर्गमाः बहुधा अन्यैः श्वापदैर- Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/८५&oldid=234543" इत्यस्माद् प्रतिप्राप्तम्