एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तिदुर्गमाः, रम्यभावोदयाः, दिक्षु द्राक्षापूर्णाक्षापः पूगौश्वालंकृताः, इतस्ततः स्फुर• न्तीभिर्विजृम्भमागाभिः नागवालीभिः सर्पश्रेणिभिः प्रथिता गुम्फिताः, सेव्यामा आश्रय णीयशिखराः, मानरहिता इयत्तापरित्यक्ताः, माकुला वृक्षव्याप्ताः, अष्टापदोपेतसंचाराः शार्दूलाश्रितमार्गाः अमी दृष्टिपथमागताः, सानुभोगाः पर्वतनितम्वविस्तराः अस्मिन्दण्डका- रण्ये श्रियं दधति ॥ भारतीयपक्षे-चामीकरिकुलैः सुवर्णान्यपुरुषसंतानैः, सुतरामाकुलै: पुत्राणां भार्याणां च समूहैः, युताः, सिंहकेसरसंछन्नाः सिंहकेसरैर्वृक्षविशेषैः प्रच्छन्नाः, बहुधान्यातिदुर्गमाः प्रचुरसस्यातिदुःखप्रवेशाः, रम्यभावोदयात् रमणीयतोदयात् इक्षुद्रा- क्षापूगैः इक्षुणां द्राक्षाणां पूगैः समूहः, नागवली मिस्ताम्बूललताभिः, सेव्याः सेवनीयाः, नरहिता नरेभ्यो हिताः, सानुभोगा विस्तीर्णाः, अष्टापदोपेतसंचाराः सुवर्णान्वितनिर्गम- प्रवेशाः, प्रामाः ॥ श्लेषः ॥ बहुधातुगणाकीर्णान्सुमहावागुणादिमान् । शब्दागम इवोद्देशान्देवलोको न मुञ्चति ॥ १५ ॥ बहिति ॥ वागुणात् उरीश्वरः, आ ब्रह्मा, अः नारायणः, तेषां गुणात्प्रभावात् गुणा- च्छौर्यादिगुणाद्वा सुमहाः शोभनोत्सवः देवलोकः सुरसमूहः बहुधातुगणाकीर्णान् प्रचुरगै- रिकादिसमूहसंकुलान् , इमान् उद्देशान् उच्चप्रदेशान् । सुमहावाग् शोभना साध्वी महती पूज्या वाग् वाणी यस्मात् सः, उणादिमान् उणादिप्रकरणवान्, शब्दागमः व्याकरणशा- नम्, बहुधातुगणाकीर्णान् बहुभिर्धातुभिर्खादिभिः, गणैः सर्वादिप्रभृतिगणैराकीर्णान् उ. देशान् प्रकरणान् इव । न मुश्चति । भारतीये हे देव, सुमहावा शोभनैर्महैरुत्सवैरावाति सः गुणादिमान् शौण्डौदार्यादिगुणवान्, लोकः अष्टादशप्रकृतिजो जनः, बहुधातुगणा- कीर्णान् प्रभूतसुवर्णादिसमन्वितान्, उद्देशान् उत्कृष्टान् धनजनकनकसस्यसमूद्धान् देशान् ॥श्लेषः ॥ मन्दरागः स्वयं साक्षान्मन्त्रकृद्भिरधिष्ठितः । पुण्याश्रमो विभात्येष सानुमाननया श्रिया ॥ १६ ॥ मन्देति ॥ मन्त्रकृद्भिविद्याधरैः साक्षात्परमार्थत्या, स्वयं स्वरूपेण, मन्दरागो मन्दरा- चलो मेरुः, अधिष्ठितः पुण्याश्रमः पुण्यजनकाश्रमः, एष सानुमान्पर्वतः अनया श्रिया विभाति ॥ भारतीये-मन्दरागः मन्दो रागो यत्र । मश्रकृद्भिर्योगिभिः । सानुमान ल. क्ष्मीप्रदानसमर्थः । पुण्याश्रमः पुण्यानां यतीनामाश्रमः ।। श्लेषः ॥ एष चापगुणोन्मुक्तविकसहाणसंहतिः । प्रदेशेऽस्मिन्नभीरामः प्रकाममवलोक्यताम् ॥ १७ ॥ एषेति ॥ चापगुणोन्मुक्तविकसदाणसंहतिः चापस्य धनुषो गुणाज्याया उन्मुक्ता वि- कसन्ती बाणानां शराणां संहतिर्येन सः, अभीनिर्भयः, रामः दशरथात्मजः, अस्मिन्प्रदेशे ....... .pigues, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/८६&oldid=234544" इत्यस्माद् प्रतिप्राप्तम्