एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ सर्गः] द्विसंधानम् । प्रकामं ययेष्टमवलोक्यताम् ॥ भारतीये-अपगुणोन्मुक्तविकसद्धाणसंहतिः अपगुणैरुन्मुक्ता विकसन्ती वानानां वृक्षविशेषाणां संहतिर्यत्र अभीरामः मनोहरः एष (पुण्याश्रमः) ॥ श्लेषः ।। शरप्रवाहदुर्गेऽमिश्रीसंपल्लक्ष्मणान्विते । देशेभग्नेभदन्ताब्ये दृश्यतां दीप्रतागुरुः ।। ५८ ॥ शरैति । शरप्रवाहदुर्गे मार्गणगणविषमे, श्रीसंपलक्ष्मणान्विते श्रीसंपदा सीतया लक्ष्म. णेन सौमित्रिणा चान्विते, भमेभदन्ताये मर्हस्तिदन्तैरान्ये, अस्मिन्देशे दीप्रतागुरुः दीप्रतया प्रतापेन शरीरतेजसा वा गुरुः (रामः) दृश्यताम् ॥ भारतीये-शरप्रवाहदुर्ग पयःपूरदुष्प्रवेशे यद्वा मुझसंघदुष्प्रवेशे, श्रीसंपलक्ष्मणान्विते शोभासंपत्तिचिहान्विते, अ. भमे निरुपद्रवे, भदन्ताट्ये संसारासारतापरिझानेन वैरजिकैः पुरुषैराश्रिते, दीप्रतागुरुः तप- श्वरणादिना गुरुः (पुण्याश्रमः) ॥ श्लेषः ॥ अहो परमरौद्रत्वमसिधाराव्रतैश्चिता । धत्ते सङ्ग्रामदुर्गान्तभूमिर्नरकपालिनी ॥ १९ ॥ अहो इति । असिधारावतैवीरक्षत्रियकुमारैः, चिता व्याता सङ्ग्रामदुर्गा खरदूषणादि- युद्धविषमा, नरकपालिनी नराणां कपालैाप्ता, अन्तर्भूमिः समीपमेदिनी अहो आश्चर्य परमरौद्रत्वं अतिभीष्मतां धत्ते ॥ भारतीये-असिधारावतैः खड्गधारातुल्यत्रतैर्योगिभिः, नरकपालिनी नरान् केन सुखेन पालयतीत्येवंशीला, संग्रामदुर्गान्तभूमिः समीचीनप्राम. प्राकारमध्यावनिः, परमुत्कृष्ट, अरौद्रत्वं प्रसमत्वम् ॥ श्लेषः ॥ प्रभञ्जनाकुलाशोकभिन्ना 'नागसंहतिः । एतस्मिन्नीदृशं कालं प्राप्य राजन्न राजति ॥ ६०॥ प्रभानेति ॥ हे राजन्, प्रमअनाकुला प्रध्वंसव्यप्रा, शोकभिन्ना मनःसंतापभमा, पुंनागसंहतिः सत्पुरुषसमूहः, एतस्मिन्दण्डकारण्ये, ईदृशं कालमन्तकतुल्यं रामलक्ष्मणयु- गलं प्राप्य न राजते। भारतीये--प्रभअनाकुलाशोकभिन्ना वाताहताशोकवृक्षमिश्रिता, पुंनागसंहतिः वृक्षविशेषपङ्गिः, एतस्मिन्प्रदेशे ईदृशं कालं शरदात्मकं प्राप्य [कि] न राजते ॥श्लेषः ॥ नृप हेतुरगान्पश्य त्वं लक्ष्म्या ज्वलितानिमान् । वैरिदावाग्मिसंतापविदग्धान्पतितानितः ॥ ६१ ॥ नृपेति ॥ हे नृप, त्वं लक्ष्म्या शोभया ज्वलिताशोभितान्, वैरिदावाग्निसंतापविद- ग्धान् शत्रुदवानलसंगमभस्मीभूतान् इतोऽस्मिन्देशे पतितान् इमान् तुरगानश्वान् पश्य ॥ भारतीये-लक्ष्म्या हेतुस्त्वं ज्वलितान् प्रदीप्तान, अगान् वृक्षान् ॥ श्लेषः ॥ वेगिनीमिह पश्यामि नदीनां स्यन्दनक्रियाम् । कुअराजिश्रियं चोच्चैस्तीक्ष्णाङ्कुशमुखोद्यताम् ॥ ६२ ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/८७&oldid=234545" इत्यस्माद् प्रतिप्राप्तम्