एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ सर्गः द्विसंधानम् । स्वपदव्यवसायाय स्वपदव्या अवसायाय नाशाय, दूरं यथा स्यात्तथा जहे हृतवान् ॥ भा- रतीये-इदम् अन्यद् रम्यपदार्थजातं कलयन् पश्यन् कामादिषु अरिषदुर्गेषु संनिपातिना संनद्धेन, निरोधेन रोधनेन जितात्मा यन्त्रितात्मा, अरीणां शत्रूणां गोचरं गतम् (अपि) अवन्यायपथं न धीप्सन्, मदनाशाधिकोद्योगः मदस्य गर्वस्य नाशाय अधिक उद्योगो यस्य सः, मायावेषेण कौटिल्याकारेण यः अजितः कापटिकतेन यो जित इति वा, गाढाकल्पकनिष्ठत्वं दृढालंकारतत्परताम् दृढाजन्मलघुतां वा कुर्वन् , स युधिष्ठिरः, तो तीव्रतां स्वपदव्यवसायाय स्वपदनिश्चयाय जढे श्लेषः ॥ विहायसारमुद्वेगं गच्छता ज्वलतामुना । साक्षालक्ष्मीः कृतौत्सुक्यं नीता सजानकीदृशी ॥ ९३ ॥ विहायेति ।। अरम् उद्वेगं गच्छता, ज्वलता कामाग्निदह्यमानेन अमुना रावणेन वि- हायसा गगनपथेन साक्षात् परमार्थवृत्त्या लक्ष्मीः ईदृशी पतिव्रता सजानकी सती जानकी कृतोत्सुक्यं विहितराभस्यं यथा स्यात्तथा नीता ॥ भारतीये-ज्वलता यूतव्यसनवहिना दह्यमानेन अमोत्पन्नसंतापसंतप्यमानेन वा गच्छता मार्गे विहरमाणेन अमुना सारं घनम् उद्वेगं विहाय कीदृशी सजा औत्सुक्यं नीता प्राप्ता लक्ष्मीनं साक्षात् आत्मसात् कृता । श्लेषः ।। आलिङ्गन्निव वेलामिः खागतं व्याहरन्निव । गर्जेरूस्खलस्तेन क्रमेण ददृशेऽम्बुधिः ॥ ९४ ॥ आलिशामिति ॥ तेन रावणेन युधिष्ठिरेण च गर्जेः कल्लोलकोलाहलैः स्वागतं व्याहर- निव वेलाभिरालिङ्गन्निव ऊर्जस्वलो बलिष्ठः अम्बुधिः समुद्रः क्रमेण गतप्रत्यागतेन द- दृशे दृष्टः॥ शीतोऽम्भःकरिणां लवङ्गकवलोद्वारस्य गन्धं वह न्यातस्तालवनान्तरेषु परुषं हस्तैर्विवानाहतः । युद्धपधिपरिश्रमेण तिमिभिः सीत्कृत्य पीतोऽम्बुधे- राश्लिष्यत्स यशोधनंजयपरं विद्याधूतां नायकम् ॥१५॥ इति श्रीधनंजयकविविरचिते धनंजयाङ्के द्विसंधानकाव्ये राघवपाण्डवीयापरनानि सीताहरणलङ्काद्वारवतीप्रस्थानकथनो नाम सप्तमः सर्गः समाप्तः । शीतविति ॥ शीतः शीतलः, अम्भःकरिणां जलगजानां तालवनान्तरेष परुर्ष वि- वान् विचरन्, तिमिभिर्मत्स्यविशेषैर्हस्तैः आहतः युद्धस्पर्धिपरिश्रमेण युद्धस्पधिना परिश्र- मेण सीत्कृत्य पूर्वे हस्तैः पीतः ततो लवङ्गकवलोद्गारस्य गन्धं वहन् सः अम्बुधेः वातः यशोधन जयपरं जयं पिपत्ति तम् विद्याधृतां विद्याधराणां नायक रावणम् आश्लिष्यत् आलिकति स्म ॥भारतीये--यशोधनंजयपरं'प्रतापो यस्य वार्तापि राज्ञा स्याद्भयकारिणी। Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/९३&oldid=234552" इत्यस्माद् प्रतिप्राप्तम्