एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। एकदिग्व्यापिका कीर्तिः सर्वदिग्व्यापकं यशः॥' इत्युक्तलक्षणेन यशसोपलक्षिते धनंजये परं तत्परम् । विद्याधृतां विद्यावतां नायकं युधिष्ठिरम् ॥ शार्दूलविक्रीडित छन्दः ॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीच्छोटीलालात्मजश्रीषदरीनाथविरचिताया द्विसंधानकाव्यटीकायां सीताहरणलकाद्वारवतीप्रस्थानकथनो नाम सप्तमः सर्गः । अष्टमः सर्गः । अथ कदानुक्शा नु परासुता पुरमुपेत्य सदुर्जनकस्य वा । क्रियत इत्ययमाकुलमानसः प्रभुरवोचत वीक्ष्य पयोनिधिम् ॥ १॥ अथेति ॥ अथानन्तरं, प्रभू रावणः, सदुः सीदन्त्यस्मिनिति निवासोचितम्, पुरं ल- काभिधेयम्, उपेत्य 'नु अहो परा सर्वरमण्युत्कृष्टा जनकस्य राज्ञः सुता सीता कदा अनु- वशा आत्मवशवर्तिनी वा एव मया क्रियते' इति प्रकारेण आकुलमानसः सन्, पयो- निधि समुद्र, वीक्ष्य अवोचत ॥ भारतीये-स प्रभुयुधिष्ठिरः 'नु अहो पुरं हस्तिनापुरम् उपेत्य दुर्जनकस्य दुर्योधनस्य परासुता मृत्युः अनुवशा आत्माधीना कदा क्रियते' इत्या- कुलमानसः ॥ श्लेषः ॥ द्रुतविलम्बितं वृत्तम् ॥ अयमगाधगमीरगुरुर्गुणैरुपगतोनियतावधिरार्द्रताम् । यतिरिवाखिलसत्त्वहितव्रतो जलनिधिः सकलैरवलोक्यताम् ॥२॥ - अयमिति ॥ अगाधगभीरगुरुः अगाधोऽतलस्पर्शी, गभीरो दुर्लक्ष्यः गुरुर्गरिमोपेतः । कर्मधारयः । गुणैरार्द्रतामुपगतः, अनियतावधिरनिश्चितमर्यादः, अखिलसत्त्वहितव्रतो नि. खिलपाणिभ्यो हितं व्रतं यस्य सोऽयं जलनिधिः । अगाधगभीरगुरुः अनुपमगाम्भीर्यश्चासौ गुरुः संसारसमुद्रतरणे पोतायमानं धर्म गृणाति स च, आईतां दयालुतामुपगतः, सकलै- गुणैः नियतावधिनिश्चितमर्यादः, यतिरिव । सकलैरवलोक्यताम् ।। असुतरां सुतरां स्थितिमुन्नतामसुमतां सुमता महतां वहन् । उरुचितैरुचितैर्मणिराशिमिः स्वरुचि तै रुचितैरवभात्ययम् ॥ ३॥ असुतेति ॥ असुतरां तरीतुमशक्यामुनतामुतुङ्गां महतां सत्पुरुषाणामसुमतां प्राणिनां सुमतामिष्टां स्थिति सुतरां स्वभावेन वहन् अयं जलधिसुरुचितैरुच्चैः संहतैः रुचितैर्दीप्ति रुचितैनरेन्द्रमुकुटकोटियोग्यैस्तैर्लोकोत्तरैमणिराशिभी रनश्रेणिमिः स्वरुचि स्वाभाविकका. न्ति यथा स्यात्तथावभाति ।। अनिधनेन रसातलवासिना विगलितो निबिडं वडवाग्निना । इह मुहः शफरीपरिलङ्घनव्यतिकरावथतीव सरित्पतिः॥४॥ अनिधनेनेति ॥ सरित्पतिः अनश्वरेण रसातलवासिना घडवानलेन निषि विगलितः सन् इह देशे शफरीपरिलइनव्यतिकरात् मुहुः कथतीव ।। उस्प्रेक्षा ॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/९४&oldid=234553" इत्यस्माद् प्रतिप्राप्तम्