एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ सर्गः] द्विसंधानम् । ८७ वेगविति ॥ प्रतिदिशम् आपूर्णानां संभृतानां, हिमकरविध्वस्तानां शिशिरकरचन्द्रायो- क्षिप्तानाम् (चन्द्रोदयो ह्यदधिवृद्धये) मकरविध्वस्तानां मकरैविध्वस्तानाम् एषां बेलौघानां कल्लोलसमूहानाम्, वेगो रयः अस्मिन्स्थाने प्रतिनिशं आलोकान्तं सूर्योदयावधि, यथा स्यात्तथा आलोकान्तं चक्षुविषयताम् अत्येति अतिक्रामति ॥ जलधरमाला ।। खं मलमान्तरङ्गमखिलं सलिलधिरधिकं तत्तिमिराशियोगदलितं यतिरिव परितः । आवरणात्मकं मुहुरयं बहिरमिनुदति प्रायश ईदृशी हि महतां गतिरतिविमला ॥ १६ ॥ स्वं मलेति ॥ अयं सलिलधिः समुद्रः स्वमात्मीयम्, आन्तरङ्गं मध्यगतम्, अखिलं समस्त तिमिराशियोगदलितं मीनसमूहसंबन्धविध्वस्तम्, आवरणात्मकं जनझम्पनरूपं तन् मलम् । यतिः आन्तरङ्गमात्मप्रदेशानुविद्धम्, तिमिराशियोगदलितं पापाज्ञानभक्षण- शीलचित्सवचनकायनिरोधनाशितम्, आवरणात्मकं ज्ञानव्यक्तिप्रच्छादनरूपम्, अखिलं मलं पापम् इव । अधिकं यथा स्यात्तथा मुहूर्वारंवारं परितः सामस्त्येन बहिः अभिनुदति उरिक्षपति ॥ हि यतः महतां प्रायश ईदृशी अतिविमला गतिर्भवति ।।अर्थान्तरन्यासः।। वैशपत्रपतितं वृत्तम् ॥ उहिन्दूनां मुहुरनुबद्धं वीच्या वात्यासारं प्रशमितता पारम्यम् । फेनालीनां छिमितिकरोत्येतस्मिन्वात्या सारं प्रशमिततापा रम्यम्॥१७॥ (अन्त्यपादयमकम्) उद्विन्दूनामिति ॥ एतस्मिन्प्रदेशे तता विस्तृता प्रशमिततापा नाशितसंतापा सा वात्या वातमण्डली पात्या विजृम्भमाणया वीच्या तरङ्गेणानुबद्धम् रम्य मनोहरम्, उद्विन्दूनां यु- दुदवतीनां फेनालीनां पारम्य शोभाम् अरमत्यर्थम्, असारं शीघ्र छिमितिकरोति विनाश• यति ॥ जलधरमाला॥ अन्वेति रत्नोल्लसितेन्द्रचापः कल्लोलमेघः सकदम्बकेन । नभखता शङ्खचलङ्कलाकः क्षोभं गतः प्रावृषमम्बुराशिः ॥ १८ ॥ अन्वेतीति ॥ रत्नोल्लसितेन्द्रचापः, कल्लोलमेघः, शङ्खचलद्वलाकः, अम्बुराशिः समुद्रः सकदम्बकेन सवृक्षविशेषकुसुमेन ससमूहेन वा क्षोभं गतः सन् प्रावृष वर्षामन्वेत्यनुकरोति ॥ अनुकार्यानुकारकयोरुपमावधारणगर्भसमासेन सादृश्यम् ॥ उपजातिः ।। इत्यं तेन व्यापृतनेत्रेण पयोधौ वेलावेगाद्भानुसमीपं हियमाणा । क्रन्दन्त्यन्तःस्नेहकृपा परिवृत्य श्रीमत्सीतापक्रमतप्ता विलुलोको॥१९॥ इत्यमिति ॥ इत्थं पयोधौ व्यापृतनेत्रेण तेन रावणेन स्नेहकृपाम् अन्तश्चेतः परिवृत्य वेलावेगात् अन्तर्मुहूर्तसमयात् भानुसमीपं ह्रियमाणा नीयमाना, अपक्रमतप्ता अन्याय- Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/९७&oldid=234556" इत्यस्माद् प्रतिप्राप्तम्