एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। मार्गजदुःखसंतप्ता श्रीमत्सीता क्रन्दन्ती राम राम रक्ष रक्षेत्यादिविलापं कुर्वती सती वि. ललोके ।। भारतीये-वेलावेगात् कलोलरयेण कळ । कर्तर्यप्यपादानस्वविवक्षया पश्चमी भानुसमीपं हियमाणा (अतएव) तापक्रमतप्ता (अतएच) क्रन्दन्ती श्रीमत्सी ॥ मत्तम- यूरं वृत्तम् ॥ स्थिरसमुद्रसमुद्रसकौतुकाागभुजं विनयेन नयेन च । तमुदितं मुदितं धनुनोग्रवागिति विभुं निजगौ निजगौरवात् ॥ २०॥ स्थिरसेति ॥ स्थिरसमुद्रसमुद्रसकौतुका स्थिरे समुद्रे मुगुक्तरसजनकं मुद्रसयुक्तं वा कौतुकं यस्याः सा, उप्रवाग, अनुजा शूर्पणखा, युगभुज दिवं गतान्देवान्भुनक्ति त्रायते तम्, विभुं तं रावणं येनैव वाक्येन मुदितं (तस्य) भवेत् तद् उदितं वाक्यं विनयेन प्रश्र- येण निजगौरवात् स्वकीयमाहात्म्यात् इति वक्ष्यमाणं निजगौ अपि तु न उक्तवती । भारतीये-अप्रवाक अनुजो भीमोऽर्जुनो वा युगभुजंयुगे व भुजे यस्य तम्, उदितमभ्यु- दयं गतम्, स्थिरसमुद्रसमुद्रसकौतुकात् मुदितम् , निजगौरवात् विनयेन नयेन दण्डनीत्या- दिना च ॥ द्रुतविलम्बितम् ॥ सोऽयं नगर्याः परिखायमाणो वाताहतैरम्बुकणैः पयोधिः । दूरोन्नमत्पाण्डुकुलाग्यमुच्चैरक्षोध्वजं त्याजयति श्रमं त्वाम् ॥ २१ ॥ सोऽयमिति ॥ नगर्याः परिखायमाणः सः अयम् पयोधिः, दूरोनमत्पाण्डुकुलाम्यम् बहकालोपतिप्राप्तनिर्मलवंशप्रधानम्. रक्षोध्वज राक्षसानां ध्वजायमानम्, त्वाम् वाता- हतैः अम्बुकणैः उचैरत्यर्थे श्रमं त्याजयति ॥ भारतीये-उचैरक्षः स्थूलशङ्खादिः पयोधिः दूरोलमत्पाण्डकुलायम् दीर्घोन्नतपाण्डुराजान्वयज्येष्ठम्, अध्वज मार्गोत्पनं श्रमम् ॥ इन्द्र- बजावृत्तम् ॥ अत्रासनक्रमकरैरयमाविलोऽलमायातिपातिविसरो जवनखरोऽधः । अत्रासनक्रमकरै रयमाविलोलमायाति पाति विसरोजवनस्वरोधः ॥२२॥ अत्रेति । अत्र देशे, आविलः सकलुषः, आयातिपातिविसरः आयं नदीसंगमम् अ- तिपततीत्येवंशीलो वीनां पक्षिणां सरः समदायो यत्र सः. अधः अधस्तात जवनस्वरः शीघ्रघोषः, अयं सरित्पतिः, अत्रासनक्रमकरैः न त्रासो येषु तैनक्रमकरयादोमिः, आ- विलोल चश्चलम्, रयं वेगम्, (ते) आसनक्रमकरैः आसनक्रममतिथिसत्कार कुर्वद्भिरेव (हेतुमिः) आयाति । विसरोजवनखरोधः विभिरुपलक्षितसरोजवनवस्वीयरोषः पाति र- क्षति ।। अर्थसमयमकम् ।। वसन्ततिलकावृत्तम् ॥ यद्वातकी यद्दलिभस्तरङ्गी तत्कि गतो वर्षिमहानियोगम् । सत्त्वानुकम्पाभिरतो यदब्धिस्तत्कि गतो वर्षिमहानियोगम् ।। २३ ॥ यदिति ॥ यत् यस्मात् वातकी वाताक्रान्तः पलिभः त्वक्सकोचाक्रान्तः, तरङ्गी तर- शाकान्तः अस्ति । तत् अयमब्धिः वर्षिमहानियोगं वार्द्धक्येनापचयसंवन्धं कि गतः । ___gized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/९८&oldid=234557" इत्यस्माद् प्रतिप्राप्तम्