एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके चतुर्थः खण्डः. न्ति मा नों मध्या रीरिषतायुर्गन्तः । 'अग्निष्ट आयुः प्रतरां दधात्वमिष्ट पुष्टि प्रतरां कृणोतु । इन्द्रो मरुद्भिर् ऋतुधा कृणोत्वादित्यैस्ते वसुभिरा ददुः । मेधां मह्य प्रजापतिर्मेधामनिर्ददातु मे । अप्सरासु च या मेधा गन्धर्वेषु च यद्यशः । दैवी मपि तावत् नः अस्माकमायुः पूर्णमस्तु मध्या मध्ये मा रीरिषत मा हिंसिष्ट । रुष रिष हिंसायाम् । गन्तोः आङ् अत्र द्रष्ट व्यः, अा गन्तोः आगमनात् यावत्स्वयमेव गच्छति तावन्मा रीरिषत ।। 'अग्रिष्ट इति । अग्रिः ते तव आयुः प्रतरां प्रकृष्टतरं दधातु ददातु स्थापयतु वा । स एवान्निः ते तव पुष्टं प्रतरां प्रकृष्टतरां कृणोतु । इन्द्रश्च मरुद्भिस्सह ते तव पुष्टि ऋतुधा ऋतावृतों कृणोतु । स एवेन्द्रः आदिखैर्वसुभिस्सह ते पुष्टि आदधातु । इदमप्याचार्यपक्षे सुगमं, माणवकपक्षे तु अन्तरात्मशरीरात्मभेदेन मेधीमिति । स्पष्टोऽर्थः । ददुः दद्युः । अप्सरांस्विति ॥ अप्सरस्सु । दैवी देवेषु भवा । मा नुषी मनुष्येषु भवा या संसा मेधा । तच यश इत्यपि द्रष्टव्यम् । इह कर्मणि मां सा मेधा आविशतात् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१०५&oldid=94024" इत्यस्माद् प्रतिप्राप्तम्