एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यानैकान्निकाण्डे. हिरण्यवर्चसं पूरुषं प्रियं कुंरु । प्रियं मां दुवे कुरु प्रियं मा ब्रह्मणे कुरु । प्रियं विश्येषु शूद्रेषु प्रिय रार्जसु मा कुरु । या तिरश्च निपद्यसेऽहं विधरणी इति । तां त्वां घृतस्य धारंया यजें सः रार्धनीमहम् । सरार्धन्यै देव्यै स्वाहां 'प्रसाधन्यै सं दीर्घत्वं, पूरुषु षष्टयर्थे सप्तमी । बहूनां मां प्रियं कुरु बहुषु, यथाऽहं सर्वेषां प्रियस्यां तथा कुरु ॥ ‘एतदेव -प्रियं मा इति । सर्वत्र षष्ठयर्थे सप्तमी। प्रपञ्चयांत ब्रह्मणे ब्राह्मणे । ब्राह्मणशब्दस्य छान्दसं ह्रस्वत्वम्, जातावकवचनम्। विश्येषु वैश्येषु । छान्दसं हृस्वत्वम् । राजसु क्षत्रियेषु हे हिरण्य। त्वत्संस्पृष्टाज्यहोमात् देवादीनामेषां प्रियस्यामित्यर्थः । या तिरश्चीति ॥ संराधनी नाम देवता, सा च भूमिरित्येके। मध्यमावस्थाना वागित्यन्ये । संराधाने ! हे या त्वं तिरश्ची तिर्यग्भूता निपद्यसे शेष अहं सर्वस्य भूतस्य विधरणी विधा रयित्री इति अनया बुद्धयेति भूमिंपक्षे । वाक्पक्षे तु विधरणं निवारणं हेमविन्नकारिणामहं निवारयित्रीत्यनया बुद्धया तेषाम प्रवेशाय या त्वं द्वारदेशे तिर्यग्भूता शेष इति, तां त्वा घृतस्य धारया संरराधनमिह यजे ।। 6-उत्तरौ स्पष्टौ ॥ प्रसाधन्यपि सैव संराधनी, प्रकर्षण साधयित्रीति देवतान्तरं वा ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१२४&oldid=94043" इत्यस्माद् प्रतिप्राप्तम्