एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके एकादशः खण्डः. 125 दात्रे मह्य वसूनि धनानि ददातु प्रजारूपमत्र धनं विवक्षितं 'प्रजाकामाय ' इति वचनात् । प्रजाकामाय मीढुषे रेतस्सेक्रे दुरोणे ! दुराणामात गृहनाम, इह तु “न । गृहं गृहमित्याहुः गृहिणी गृहमुच्यते' इति न्यायेन भार्यायां वर्तते । योऽहं त्र जाकामो भूत्वा भार्यायां रेतस्सिञ्चामि तस्मै मह्य प्रजां द्दा त्विति समुदायार्थः । तस्मा एव मह्य देवा अपि अमृताः अमरणधर्माणः संव्यन्तां व्यतिर्दानकर्मणि, ददतु । देवा इति वचनं कतिपयेष्वेव पर्यवस्येत् तदर्थमाह-विश्वे देवास इति । अदितिश्च सजोषाः समानप्रीतिः ।। यस्त्वा हृदेति ॥ हे अग्रे ! जातवेदः ! यः अहं मत्र्यः त्वा त्वां अमत्र्य मन्यमानः मरणधर्माणं माममरणधर्मा रक्षितुं समर्थ इति मन्यमानः कीरिणा छूदा कीरिरिति स्तोत्रनाम, स्तु तिषरेण मनसा जोहवी िआह्वयामि । यच्छब्दश्रुतेः तच्छब्दोऽ ध्याहार्यः । तस्मिन् अस्मासु, वचनव्यत्ययः, तस्मिन्मयि यश अत्रं कीर्ति वा धेहि स्थापय । किञ्च-प्रजाभिरमृतत्वं अश्यां प्राप्नुयां * श्रजामनु प्रजायसे । तदु ते मत्र्या मृतम् '* इति श्रुतेः । यस्मा इति ॥ हें अग्रे! जातवेदः! त्वं यस्मै सुकृते पुरुषाय स्योनं सुखात्मकं लोकं कृणवः कुर्याः । उशब्दोऽनर्थकः । सः अश्धिनं. अश्वयुक्तं पुत्रिणं पुत्रैश्च युक्तं वीरवन्तं शूरैः परिचार कपुरुषैः पौत्रेर्वा युक्तम् । वीरशब्दः पौत्रवचनः पुत्रिणमित्युक्तत्वात्। गोमन्तं च रायें धनं च नशते प्राझेोति स्वस्ति यथा तथा ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१३७&oldid=94056" इत्यस्माद् प्रतिप्राप्तम्