एतत् पृष्ठम् अपरिष्कृतम् अस्ति

126 सव्याख्यानेकानिकाण्डे. ‘त्वे टु पुत्रेति । ।हे २ावसः पुत्र ! शव इति बलनाम, तस्य पुत्रः बलातिशयप्रतिपादनपरं चैतत् । वलवतेपि तावत्पुत्रो बलवान्भवति , किंपुनर्वलस्यैव पुत्र इतेि । दृश्यत चान्यत्रापीदृशं इन्द्रस्याभ धानम् । तद्यथा ' ओजसो जातसुत मन्य एनम्' इति । त्वे त्वयि स्ववृत्रन् । वृतेर्लङि द्युतादित्वादङि 'बहुलं छन्दसि' इति रुटे रुपम् । सुधु वर्तन्ते । काः ? कामकातयः काम्यन्त इति कामाः तेषां कातयः कामनाः सर्वेषामेव कामानां कामनास्वयेि वर्तन्ते । त्वमेव तेषां दातेत्यर्थः । अतश्च न त्वामिन्द्रातिार च्यते त्वत्तोऽधिकः कश्चिदपि नास्तीत्यर्थः । उक्थउक्थ इति । उक्थमिति शस्त्रनाम, शस्त्रेङ्गात्रे प्रति शस्त्रं सोमः इन्द्रं ममाद । लोडर्थे लिट्, अन्तर्भावितण्यर्थश्च मदिः । मादयतु नीथेनीथे नीतेतनते समाप्तसमासे । कीट शमिन्द्रं ? मधवानं मघमिति धननाम धनवन्तं सुतासः । एक स्मिन् बहुवचनम् । सुतः अस्माभिरभिपुतः सोमः । किं कार णमिन्द्रमेव मादयितुम् ? यत् यस्मात् ई । एनमित्यस्यार्थे छन्दस्ययं शब्दः प्रयुज्यते । एनांमन्द्र सबाधः समानवाधा समानदक्षाः समानवलाश्च अवसे आत्मनो रक्षणाय हवन्ते आ ह्वयन्ति पितरंन पितरमिव पुत्राः यस्मात्परस्परं बाधमानाः ए: मेव हवन्ते तस्मात्सर्वेषां पितरमिन्द्रमेव मादयत्विति ।

  • ऋक्स

१ ०-७३-१ •

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१३८&oldid=94057" इत्यस्माद् प्रतिप्राप्तम्