एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रवाठके एकादशः खण्डः, कामहं "यास्ते राके । "यौर्गन्धरेिव नो राजेति “सीमन्तोन्नयनमन्त्रेषु-व्याहृतयः । गताः* ।। 127 "राकामहमिति ॥ पूर्णचन्द्रा पैौर्णमासी राका तां अहं सुहवां स्वाह्वानाम् । सुमुती । तृतीयैकवचनस्य पूर्वसवर्णः । सुष्टुत्या शोभ नया स्तुत्या हुवे आह्वयामि। सा च शशुणोतु नः अस्माकम् । षष्ठी निर्देशात् आह्वानमिति शेषः । सुभगा सौभाग्ययुक्ता श्रुत्वा च बाधतु त्मना आत्मना बुध्यतां हृदये करोत्वित्यर्थः । तदनन्तरं च सीव्यत्वपः, अप इति कर्मनाम, एतत्सीमन्तोन्नयनलक्षणं कर्म सीव्यतु छिद्रापिधानेन सुष्ठु करोतु सूच्या सूचीस्थानीयया स्वया। । बुद्धया आच्छिद्यमानया कचिदप्यप्रतिहन्यमानया ददातु वीरं, पुत्र नामैतत्, पुत्रं शतदायं बहूनां दातारम् । ' अण कर्मणि च । इति भविष्यति आकारान्ताद्ण प्रत्ययः । उक्थ्यं प्रशंसनीयम् । "राकामह५ सुहवा सुष्टुती हुँवे शृणोतुं नस्सुभगा बोर्धतु त्मनां । सीव्यत्यर्पस्सूच्याऽच्छि द्यमानया दांतु वीर शातद्यमुक्थ्र्यम् ॥ "यास्ते राके सुमतर्यस्सुपेशसो याभिर्ददासि दाशुषे वसूनि । तानि अद्य सुमना उपार्गहि सहस्रपो ष५ सुभगे ररांणा ॥(सं. २३-११.) *१-१०-१०. 'सूचस्वरूपया

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१३९&oldid=94058" इत्यस्माद् प्रतिप्राप्तम्