एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके एकादशः खण्डः. 15 दामास्याय सूर्तवे । "यथैव सोमः पर्वते यथा समुद्र एर्जति । एवं ते गर्भ एर्जतु सह जरायुणा निष्क्रम्य प्रतितिष्ठत्वायुषि ब्रह्मवर्चसि यशांसि वी येऽन्नाद्ये ! "दशामासांच शयानो धात्रा हि तथा कृतम् । ऐतु गर्भ अक्षतो जीवो जीवंन्त्याः । 129 "क्षिग्रंसवनेन * यजुषाऽभिमर्शनम्-आभिाऽहमिति । स्त्रीलिङ्ग निर्देशाद्दशभिरिति लिङ्गञ्च अङ्गळीभिरिति गम्यते । अभिः दशभिः अङ्गळीभिः त्वां अहं अभिमृशामि दशमास्याय । द्वि तीयार्थे चतुर्थी । दशमासान् भृतं गर्भ सूतचे क्षित्रं सोतुम् ॥ 19अवोक्षणमन्त्राः---यथैवेति ॥ यथैव येन प्रकारेण सोमः अभि षुतः पवते दशापवित्रेण स्त्रवति यथा समुद्रः वायुवशात् एजाति कम्प ते एवं ते गर्भ एजतु स्वस्थानाञ्चलतु, चलित्वा च सह जरायुणा गर्भवेष्टनेन वहिः निष्क्रम्य आयुरादिषु प्रतितिष्ठतु ॥ "दशेति ॥ दशमासान् शयानः अयं ते गर्भः अक्षतो भूत्वा जीवः जीवन्निव जीवन्खाः त्वत्तः ऐतु आगच्छतु । धात्रा हि तथा कृतमिति । दशमासशयनं हि धात्रा कृतं देवेन निर्मितम्, अतो दश मासांश्च शयानः इति । शकारलोपोऽत्र द्रष्टव्यः॥ 17

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१४१&oldid=94060" इत्यस्माद् प्रतिप्राप्तम्