एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके द्वादशः खण्डः पुष्याम्यर्धमानस्स्वे वशे । “अङ्गाँदङ्गाथ्सं भवसि हृदयादधिं जायसे । आत्मा वै पुंत्रनामांऽसि स जीव शारदंश्शातम् ॥ ११ ॥ अश्मां भव परशुभैव हिरंण्यमस्तृतं भव ।

  • अथाभिमन्त्रणम्-अङ्गादङ्गादिति । स्त्रीसंयोगं बलवता

प्रयतेन सर्वाङ्गणं रेतो निषिच्यते । तदिदमुच्यत—अङ्गादङ्गा त्सम्भवसीति । हृदयं कामस्याधिष्ठानं, तेन तस्य पुनर्वचनं हृदयादधिजायसे । अधिः पञ्चम्यर्थानुवादी । एवम्भूतस्त्वं पुत्र नामा मम । आत्मैवासि । वैशब्दः प्रसिद्धेौ । स त्वं शार दश्शतं जीव ॥ इति श्रीहरदत्तविरचिते एकाग्धिकाण्डव्याख्याने द्वितीयप्रश्ने एकादशः खण्डः. मूर्धन्यवघ्राणं-अश्मा भवति । अश्मेव स्थिरो भव । पर शुर्भव' परशुरिव दुरासदो भव । अस्तृतं अनाच्छादितं मलेन हिरण्यं भव तपो भव । गावो वत्सलाः यादृशेन हिंकारेण वत्सान् अभिजिघ्रन्ति तेन पशूनां हिङ्कारेण त्वा त्वां अभिजि घ्रामि असौ नक्षत्रनामनिर्देशः संबुद्धया, 'झातिक, रौहिण' इत्यादि। 18

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१४९&oldid=94068" इत्यस्माद् प्रतिप्राप्तम्