एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यानैकाग्निकाण्डे पशूनां त्वां हिंकारेणाभिर्जिघ्राम्यसौ। मेधां ते द्वे . वस्सविता मेधां देवी सरस्वती । मेधां तं अश्विनौ। देवावार्धत्तां पुष्करस्रजा । त्वर्यि मेधां त्वयि प्रजां त्वय्यमिस्तेजों दधातु त्वयि मेधां त्वयि प्रजां त्व येन्द्र इन्द्रियं दधातु त्वयिं धां त्वयेि प्रजां त्व यि सूर्यो भ्राजों दधातु । क्षेत्रियै त्वा निर्त्यै त्वा द्रुहो मुंश्चामि वरुंणस्य पाशात् । अनागसं ब्रह्मणे त्वा करोमि शिवे ते द्यावापृथिवी उभे दक्षिणे कर्णे जपः-मेधां त इति ॥ मेधां ते देवः स विता आदधातु । तथा देवी सरस्वती । आश्विनौ च देवौ आधत्तां स्थापयतां पुष्करस्रजा पुष्करमालिनौ । 3-त्वयि मेधामित्यादयः प्राशनमन्त्रा निगदसिद्धाः ॥ भ्राजः दीप्तिः । स्नापनमन्त्राः-क्षेत्रियै त्वेति ॥ क्षेत्री अचिकित्स्यो व्याधिः । पञ्चम्यथ चतुर्थी । श्याः रुजः अचिकित्स्यात् व्याधः 'त्यां मुञ्चामि । तथा निर्ऋत्यै निर्ऋत्याः त्वा मुञ्चामि । रक्षपि शाचादीनामधिष्ठात्री देवता निर्ऋतिः । द्रुहः द्रोग्धुश्च पुरुषा न्मुञ्चामि । तथा वरुणस्य पाशातं मुञ्चामि । एवं अनागसं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१५०&oldid=94069" इत्यस्माद् प्रतिप्राप्तम्