एतत् पृष्ठम् अपरिष्कृतम् अस्ति

144 सव्याख्यानैकाग्मिकाण्डे. च्यवनो नश्यैतादितस्वाहा ! 'अयश्शाण्डो मर्क उपवीरं उलूखलः । च्यवनो नश्येतादितस्स्वाहा। "केशिनोश्वलोमिनीः खजपोऽजोर्पकाशिनीः। अपेत नश्यंतादितस्वाहा । 'मिश्रवांस्तसः कौबेर स्तश्शण्डः, निरस्तो मर्कः' इति । शण्डस्य रथः, 1 शण्डो वा रथो यस्य स शण्डेरथः ततोपि प्रबलः कश्चिन् । शण्डनेतृकं वलं शाण्डि कं, तदीरयतीति शण्डिकरः सोपि कश्चित् । उरुश्च भवति खलश्च भवतीत्युलूखलः तदाभरणो वा, सोऽपि कश्चित् । गर्भादे. श्रचावयिता च्यवनः । एते चत्वारः असुराविशेषा नश्यतात् इतः प्रदेशात् अपसर्पन्तु । अय इति । अयः अयोमुखः । यमवेक्ष्य अन्ये वीरा न्यूना भवन्ति स उपवीरः । अन्ये व्याख्याताः । एते षट्। 1'केशिनीरिति । केशिन्यादयः पिशाच्यः । केशिनीः। एकवचनं बहुवचनं वा, निन्दायां मत्वर्थीयः । निन्दितकेशा इत् र्थः । शुन इव लोमानि यासां ताः वलोमिन्यः । खंजा $ भूत्वा या आामुवान्त ताः खजापः । अजा इव या उपकाशन्ते ' ता अजोपकाशिन्यः । या एवम्भूताः पिशाच्य: ता यूयं इनः प्रः देशात् अपेत अपसर्पत । अपेत्य । नश्यतात् । नश्यनादिति बहुवचनस्य तादादेशः ।

  • त्रा. १-१-१. * शण्डस्यैरणः, tतदाहरणे वा. $खजना.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१५६&oldid=94075" इत्यस्माद् प्रतिप्राप्तम्