एतत् पृष्ठम् अपरिष्कृतम् अस्ति

150 यदूनेः कूरं तदितो हंरामि पररांचीं नित्री निर्वाहयामि । इद् * श्रेयोऽवसानमार्णन्म देवा गो मद्श्वावदिदमंस्तु प्र भूमं । स्योना पृथिवि भवः नृक्षरा निवेशनी । यच्छां नशा सप्रथाः । है व तिष्ठ निर्मिता तिल्र्वला स्यादिरावती । मध्ये भूमेः क्रूरं अस्थिकण्टकादि तत् इतः अस्मात्प्रदेशात् हरामि अपनयामि । या चात्र निर्ऋतिः अलक्ष्मीः स्थिता तां निर्ऋतिमा पराचीं पराछुखीं निवाहयामि निर्वासयामि । इदं श्रेयः प्रशः स्ततरं अवसानं स्थानं आगन्म आगतवन्तो वयं हे देवाः!। वास्तुदेवताः ! युष्माकं प्रसादात् इदं वास्तु गोमत् अश्वावत् अश्ववत् भूम भूतियुक्तं च प्रास्तु प्रकर्षेण भवतु ॥ उत्तरयाऽभिमृशति-स्योनेति ॥ हे पृथिवि! त्वं स्योना सुख रूपा सुखस्पर्श वा भव अनृक्षरा कण्टकादिरहिता निवेशनी निवेशनयोग्या यच्छ देहि नः अस्मभ्यं शर्म सुखं सप्रथाः सर्वतः प्रथिता त्वम् । स्थूणावधानमन्त्र –इहैवेति । हे स्थूणे ! इहैव द्वारदेशे तिष्ठ निमिता निखाता अस्माभिः तिल्वला तक्षकृतेः तिलकैः तद्वती स्यात् । पुरुषव्यत्ययश्छान्दसः । स्यः इरावती अन्नवती -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१६२&oldid=94081" इत्यस्माद् प्रतिप्राप्तम्