एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीथप्रपाठके पञ्चदशः खण्डः. 151. ताल्यंस्थ तेिष्ठान्मा त्वा प्रार्पन्नधायर्वः । 'आ त्वां सह । आ त्वां परिश्रुतंः कुम्भा आ दक्षः कलंशीरयन् । ऋतन ब्रह्म च ते क्षत्रं च पूर्वे स्थूणे अभि रक्षतु । 'य- स्माकं अन्नहेतुः स्या इत्यर्थः । मध्ये ताल्प्यस्य तल्पशब्देन गृहं लक्ष्यते, तस्येदं ताल्थ्यं द्वारं तस्य मध्ये तिष्ठत् । अत्रा पि पुरुषव्यत्ययः । तिष्टाः तिष्टः । अत्र स्थितां त्वा त्वां अघायाः परेषामनर्थकामाः मा प्रापन् मा प्राप्नुवन्तु ॥ ‘आ त्वति । अयन्निति बहुवचनान्तं कुमारादिभिर्विपरिणामेन संबध्यते । कुमारस्त्वां आयातु गृहे क्रीडन्नागच्छतु अवलम्ब्य स्थानार्थम् । एवं तरुणः युवा, एवं वत्सः कुमारादपि वालः जगता गतिमता वत्सात् किंचिदधिकेन सह । परिस्चुतः परिखु त् सुरा, इह तु घृतं परिस्रवणयोगात् तस्य कुम्भाश्च त्वां आऽयन् आगच्छन्तु । दवश्व कलशीः कलश्यः आऽयन मन्थना र्थमायन् । एतेः पञ्चमे लकारे रूपम्, छान्दसो गुणः ॥ वंशमाधीयमानमनुमन्त्रयते—ऋतेनेति । ऋतन सत्येन स्थूणौ। छान्दसी लिङ्गव्यत्ययः, द्विवचनं चाविवक्षितम् । यथासम्भवं स्थूणाः आधिरोह हे बंज्ञा ! अधिरुह्य च उग्रः अनभिभूतो भूत्वा विराजन् दीप्यमानः शत्रूनपसिध प्रोत्सारय । ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१६३&oldid=94082" इत्यस्माद् प्रतिप्राप्तम्