एतत् पृष्ठम् अपरिष्कृतम् अस्ति

154 सव्याख्यानैकान्निकाण्डे गायान्निर्मौ स्वाहाँ । "अन्नपतृ इत्येषा । "अरिष्टा अस्माकं वीरास्सन्तु मा परशंसेचि मे धनम्। 'भूमिभूर्मिमगान्माता मातरमप्यंगात् । भू यास्मं पुत्रैः पशुभिर्यो नो द्वेष्टि स र्भिद्यताम् रिषः प्रकर्षेण वर्धय । किञ्च-नः अस्माकं सम्बन्धिने द्विपदे चतुष्पदे च ऊर्ज अत्रं वलं वा घेहि देहि ॥ 16उद्धाने उदकुम्भानानयति-अरिष्टा इति । अस्माकं वीराः पुत्राः आरिष्टाः अहिंसिताः सन्तु । मे मदीयं च धनं मा परासेचि व्यर्थ सिक्त मा.भूत् । सिच्यमानबिन्दृभिप्रायमेतत् ॥ "दीर्णमुत्तरयाऽनुमन्त्रयते-भूमिरिति । भूमिः भूमिगात् भूमेर्विकारभूतं उद्धानं स्वप्रकृतिमेव भूमिगात् । माता अन्तरिक्षं उद्धानगतमाकाशं मातरं वहिराकाशं अण्यगात् । अप्यथः प्रलयः । तत्रैव प्रलीना तेनैकीभूतेत्यर्थः । पु/ पशुभिश्च वयं भूयास्म प्रभूताः स्याम । यो नो द्वेष्टि स भिद्यतां, नोद्धानम् ॥ होममन्त्राः-वास्तोष्पत इति । हे वास्तोष्पते ! त्वं अस्मा न् प्रतिजानीहि । प्रतिः धात्वर्थानुवादी । त्वद्भक्तानस्मान् जानीहि । "अन्नपतेऽन्नस्य नो देह्यनर्मीवस्य शुष्मिणः । प्र प्रदातारै तारिष ऊर्ज नो धेहि द्विपदे चतुष्पदे। (सं. ४-२-३,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१६६&oldid=94085" इत्यस्माद् प्रतिप्राप्तम्