एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके अष्टादशः खण्डः, 177 निषङ्गिण इषुधिमते “क्षेत्रस्य पर्तिना वयमिति द्वे ।। १ ८ ।। परमेष्ठयति परमामष्टौ ॥ १८ ॥ आकारस्समुचये, मृडाति सुखकर्माऽयं, सृडयेत् सुखयेत् ईदृशे क र्मणि कृते । हे क्षेत्रस्य पते ! मधुमन्तं मधुस्वादेन. क्षीरादिना युक्त ऊर्मि उम्याकरं, गवां समुदायम् । तस्य विशेषणं मधुश्रुतं घृतमिव सुपूतमिति च । भवति कश्चित् मधुमान् न च मधुश्रुत्, यथा घटादि दृढम् । भवति कश्चित् मधुश्रुत् न च मधुमान्, यथा मधुभाजनस्य छिद्रम् । अतः मधुमन्तं मधुश्रुतमिति द्वयमुपात्तम्, यथा मधुमन्तो मधुश्रुत् मधुमांश्च, तद्वदुभयगुणविशिष्टं घृतमिव सुपूतं वस्त्रादिना सुष्टः शोधितं एवंभूतं गवामूमैिं अ स्मासु धुक्ष्व क्षर धेनुरिव पयः यथा धेनुः पयो दुग्धे तद्वत् । किञ्च-त्वत्प्रसादात् ऋतस्य यज्ञस्य पतयः अश्याद्यः । नः अस्मान् मृडयन्तु सुखयन्तु । इति श्रीहरदत्ताविरचित एकाप्रिकाण्डव्याख्याने अष्टादशः खण्डः. (*क्षेत्रस्य पतिंना वय हितेनेव जयामसि । गामश्वै पोषयित्न्वा स नों मृडातोद्वशे । "क्षेत्रस्य पते मधुमन्तमूर्मि धेनुरिव पयों अ स्मासुं धुक्ष्व । मधुश्रुतं घृतमिं सुपूतमृत स्यं नः पतयो मृडयन्तु । (सं. १-१-१४) 23

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१८९&oldid=94108" इत्यस्माद् प्रतिप्राप्तम्