एतत् पृष्ठम् अपरिष्कृतम् अस्ति
7
प्रथमप्रपाठके प्रथमः खण्डः

त्वयि॑ पति॒घ्न्य॑ल॒क्ष्मिस्तां निर्दि॑शामि । जी॒वाꣳ रु॑दन्ति॒ विम॑यन्ते अद्ध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ । वा॒मं पि॒तृभ्यो॒ य इ॒दꣳ स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे॑ । व्यु॑क्षत् क्रू॒रमुद॑च॒न्त्वाप॒


ति । हे वधु ! या त्वयि पतिी पतिहन्त्री अलक्ष्मिः अलक्ष्मीः। छान्दसो ह्रस्वः । तां अहं निर्दिशामेिं संमृज्य निरस्यामीति । यद्दर्भस्य निरसनं तदिदमलक्ष्म्या एव निरसनामिति इदंशब्दस्या र्थः । यथेयं अलक्ष्मीः निरस्यते तथा इदं क्रियते इति ॥

 कल्यावियोगकाले बन्धुजनस्य रोदने जपः-जीवां रुदन्तीति ॥ कन्याया एव रोदन इत्याश्वलायनः । यथाऽऽह– जीवां रुदन्ती ति रुदत्याम् ?' इति । जीवन्तीमेवैतां कन्यामुद्दिश्य रुदन्ति - ध्वरे, ध्वरतिहिंसाकर्म । हिंसारहितें कालें तदिदं विमयन्ते व्य त्ययं कुर्वतें हर्षस्थाने शेोचन्ति । त इमे दीघी दीर्घकालानुवर्ति नी प्रसितिं. अकृष्टं भावबन्धं आवयोः अनुदीधियुः अनुध्यायन्तु नरः कन्याबन्धुमनुष्याः ।. ये इदं विवाहकर्म समेरेि प्रेरिरे प्रवर्तयन्ति स्म । कीदृशं ? पितृभ्यों वामं पितृणां वननीयं मः यः पतिभ्यः पत्युर्मम सुखरुपं जनयः । षष्टयेकवचनस्थाने प्रथमां बहुवचनम् । जन्थाः अस्या . वध्वाः परिष्वजे परिष्वङ्गाय पर्याप्त एवम्भूतं विवाहकर्म प्रवर्तितवन्तः ते कन्याबन्धुमनुष्याः आवयोः भाविनं दीर्घ भावबन्धमालोच्य मा रुदन्त्वित्यर्थः ।


"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१९&oldid=214083" इत्यस्माद् प्रतिप्राप्तम्