एतत् पृष्ठम् अपरिष्कृतम् अस्ति

182 सव्याख्यानेकामेिकाण्डे पृथिवी ते पात्रं द्यौर्रापिधानं ब्रह्मणस्त्वा मुखें जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोभ्यक्षित मसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके । मार्जयं न्तां मर्म पितरो मार्जयन्तां मर्म पितामहा ‘मा- 'यजुषेोपस्पर्शयति-पृथिवी त इति । पृथिवी ते पात्रं भा जन्न एवंनाम महदसि । पूर्वत्र चोक्त 'यावानग्निश्च पृथिवी च' * इति । द्यौरपिधानं अपिधानमप्यवेप्रमाणमेव ते भवितुमर्हतीत्यर्थः। उपरिस्थितमपिधानम्, अधास्थितं भाजनम्, दिवः पृथिव्याश्च ता दृशमवस्थानम् । ब्रह्मणो ब्राह्मणस्य त्वा त्वां मुखे जुहोमि । अत्र पितरो देवता ब्राह्मणस्त्वाहवनायार्थ इति यस्यास्येन सदाऽश्रन्ति हव्यानि त्रिदिवौकसः । कव्यानि त्रेव पितरः किं भूतमधिक ततः ॥ इति स्मृतेः । एवं पितृणामर्थाय ब्राह्मणभुखे जुहामात्युक्तम् । इदानीं भुञ्जानानामपि तृप्तिरस्त्वित्याह-ब्राह्मणानां त्वा प्राणा पानयोर्जुहोम्यक्षितमसि हे अन्न ! त्वं अक्षयमसि । एषां पि तृणां ब्राह्मणानां च मा क्षेष्ठाः क्षयं मा गमः अमुत्र परलोके पितृणां अमुष्मिन् इह लोके ब्राह्मणाना च ।

  • -षिण्डदाने दर्भप्वपो ददाति-मार्जयन्तामिति । मार्ज

“अत एव ‘यज्ञान्ते ब्राह्मणानास्तर्पयतवै' इत्यादिशन्ति सर्वेऽपि कल्पसूत्र ऋकाराः' इत्याधकम्. *२-१९-१४.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१९४&oldid=94113" इत्यस्माद् प्रतिप्राप्तम्