एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकाग्धिकाण्डोपोद्भात

इदं खल्वकाग्किाण्डं नामं मन्त्रप्रपाठकापरपर्यायं प्रपाठ कद्वयविभक्त गृह्यकर्मसु विनियुक्तानां मन्त्राणां कदम्बकम् ॥ तचेदमेकाग्किाण्डमशीतिद्वयमिति प्रसिद्धे यजुश्शाखाम्राथेऽ न्तर्भूतम् । यथा-अस्यां शाखायां संहिताख्यातेषु सप्तकाण्डेषु प्रपाठकाः [४४], बाह्मणस्य काण्डत्रयसम्मितस्य [२९], काठकस्य [३], आरण्यकस्य [८], मन्त्रप्रपाठकौ [२] । आहत्यं [८२] दृ धिकाशीतिसंख्या प्रपाठकानाम् ॥ यद्यप्यत्र केचित् माधवीयवेदभाष्यानुसारेण त्रिवलीं तैत्ति रीयोपनिषदं प्रपाठकत्रयवतीं मत्वा आरण्यकस्य (१०) दशप्र पाठका इति मन्त्रप्रपाठकद्वयायोजननाप्यशीतिद्वयत्वमुपपादयन्ति । तथाऽपि भट्टभास्करादिविरचितभाष्यानुसारेण त्रिवछया अपि तै त्तिरीयोपनिषदः एकप्रपाठकत्वस्यैवावगमात् मन्त्रप्रपाठकद्वययोगम न्तरेणाशीतिध्यत्वमनुपपन्नमेव स्यादित्येकान्निकाण्डस्यात्रान्तर्भाव आ वश्यक एव । अत एव भट्टभास्करभाष्योपोद्धातोदाहृतकाण्डानु क्रमण्यां “अथैकान्निकाण्डं प्रसुग्मन्तेत्यग्निकाण्डस्थवैश्वदेवमन्त्राश्च । तस्थं विश्वेदेवा ऋषयः' इत्याभिधानं संगच्छते ।। किंच-माधवीयादिषु कचिदप्यशीतिद्वयमित्यनभिधानात् य जुराम्रायस्याशीतिचतुष्टयत्वमव तन्मतेनास्थेयमित्युन्नतुं साम्प्रतम् । काण्डानुक्रमणीसमधिगताम्रायान्तःपातस्यकान्निकाण्डस्याम्रायानन्तःपा तवाचोयुक्तरयुक्तत्वात् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२&oldid=93919" इत्यस्माद् प्रतिप्राप्तम्