एतत् पृष्ठम् अपरिष्कृतम् अस्ति
11
प्रथमप्रपाठके प्रथमः खण्डः

यासु॑ जा॒तः क॒श्यपो॒ यास्व॒ग्निः । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु । यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु । यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा निवि॑ष्टाः । या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु । शि॒वेन॑ त्वा॒ चक्षु॑षा पश्यन्त्वापश्शि॒वया॑ त॒न्वोप॑स्पृशन्तु॒ त्वच॑न्ते । घृ॒त॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्तास्त॒


वैद्युतस्य अप्सु जन्म, धारणं च तस्यैव । सुवर्णाः शोभनवणः ताः आपः .ते शं स्योनाः सुखकराः भवन्तु । स्योनमि त्यपि सुखनाम, ऐहिकपारलौकिकसुखस्य भेदादपौनरुक्त्यम् ।

 तृतीयः--यासां राजेति । स्पष्टार्थः ।' ' '

 ‘चतुर्थः—यासां देवा इति । यासां अपां भोजनं भुक्षे दिवि द्युस्थान देवाः कृण्वन्ति कुर्वन्ति । या अन्तरिक्षे बहुधा निविष्टाः मेधेषु । या आमेिं गर्भ दधिरे बडबानल रूपं धृतवत्यः । ता इत्यादि । गतम् ।।  शिवेन त्वेति । हे वधु!. आपः त्वां शिवेन चक्षुषा प श्यन्तु शिवया च तन्वा ते त्वचं उपस्पृशन्तु घृतश्रुत

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२३&oldid=214087" इत्यस्माद् प्रतिप्राप्तम्