एतत् पृष्ठम् अपरिष्कृतम् अस्ति
5
सव्याख्यानैकाग्निकाण्डे

आप॒श्श२ꣳ स्यो॒ना भ॑वन्तु । परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ । वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः । आ॒शासा॒नेत्ये॒षा । पू॒षा त्वे॒तो न॑यतु॒


घृतस् दुहभाः । शुचय इत्यादि । गतम् ।।

  "अहतस्य वाससः परिधानम्-परि त्वा गिर्वण इति । हे इन्द्र ! त्वं गिर्वणः, वनषणासम्भक्तों, स्तुतिलक्षणाभिर्गीर्भिः सम्भ जनीयः स्तुतीनां वा सम्भक्तः इमा मदीया गिरः त्वा त्वां प रिभवन्तु, परिपूर्वो भवतिः परिग्रह वर्तते, परिगृह्णन्तु विश्वतः सर्वतो यथा इमामिदं वासः परितो भवतीत्यभिप्रायः । कीदृशं त्वां : वृद्धायुं वृद्वान् गुरून् प्रतिं गन्तारं, कीदृश्यो गिरः ? अनुवृद्धयः, अनुरनर्थकः, वृद्धयः प्रवृद्धास्ताश्च जुष्टाः सेविता भवन्तु त्वया जुष्टयः सेवितव्याः ।

  योकबन्धनम्-आशासानेति । सौमनसं सौमनस्यं प्रजां सौ. भाग्यं तनू चाशासाना अमेरनुत्रता भूत्वा वधूरियं तिष्ठति, तामिमां योक्रेक्षा संनही बन्नामि सुकृताय विवाहाख्याय पुः ण्याय कर्मणे । कमित्यनर्थकम् । सुखं यथा भवति तथा  अथैनामन्निमभ्यानयति-पूषा त्वेति । पूषा आदित्यः


आशासना सौमनसं प्रजा सौभाग्यंतनूम् । अग्रेरर्नुव्रता भूत्वा स नो लुकृताय कम्॥(सं.१-१-१०)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/२४&oldid=214088" इत्यस्माद् प्रतिप्राप्तम्